SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३४ ॥ सवृत्तिपिण्डनियुक्तिः ॥ हृदमगच्छन्निति गाथार्थः॥५५५॥ यूथाधिपतिः पद्मोत्पलसञ्च्छन्नं हृदं स्वयमवलोक्य वानरानाह ओयरंतं पयं 'दिटुं उत्तरंतं न दीसई। . ___णालेण पियह पाणीयं ण एस निक्कारणो दहो॥५५६॥ दारं॥ ओयरतं सिलोगो। (व्याख्या-) “अवतरद् आरण्यसत्त्वानां पदं दृष्टमुत्तरत् पदं तेषां न दृश्यते, ततो नालेन पिबत पानीयं नैष निष्कारणो हृद इति श्लोकार्थः॥५५६॥ भणिता द्रव्यग्रहणैषणा। अधुना भावग्रहणैषणामाह- सा च दशदोषरहिता शुद्धा भवति, अतस्तानेव दशदोषानाह संकिय-मक्खिय-निक्खित्त-पिहिय-साहरिय-दायगुम्मीसे। ___ अपरिणत-लित्त-छड्डिय एसणदोसा दस हवंति॥५५७।। संकिय० गाहा। व्याख्या- शङ्कित-प्रक्षित-निक्षिप्त-पिहित-संहा-दायकोन्मिश्राः अपरिणत-लिप्त-छर्दितसहिताः एषणादोषा दश भवन्तीति गाथासमासार्थः॥५५७। 'यथोद्देशस्तथा निर्देशः' इति न्यायात् शङ्कितपदव्याचिख्यासयाह संकाए चउभंगो दोसु वि गहणेसु भोयणे लग्गो । जं संकियमावण्णो पणुवीसा चरिमए सुद्धो॥५५८॥ संकाए गाहा। व्याख्या-शङ्कायां चत्वारो भङ्गास्ते चामी-ग्रहणे शङ्किते भोजने च प्रथमो भङ्गको (१) ग्रहणे शङ्कितो न भोजने द्वितीयः (२) ग्रहणे निःशङ्कितो भोजने शकितस्तृतीयः (३) उभयनिःशङ्कितश्चतुर्थ (४) इत्यर्थः। 'दोसु वि गहणेसु भोयणे लग्गो' त्ति द्वयोरपि ग्रहण-भोजनयोः शङ्कायां सत्यां लग्नः = प्रायश्चित्तमापन्न इत्यर्थः, यो दोष आधाकादिशवितस्तं प्रत्यापन्नः पञ्चविंशतिदोषाणां मध्ये चरिमे'त्ति निःशङ्कितपदे शुद्ध इति गाथार्थः॥५५८॥ पञ्चविंशतिदोषानाह उग्गमदोसा सोलस आहाकम्माइ एसणादोसा। नव मक्खियाइ एए पणुवीसा चरिमए सुद्धो॥५५९॥ उग्गम० गाहा। व्याख्या- उद्गमदोषाः षोडश आधाकदियो ग्रहणैषणादोष नव प्रक्षितादय एते पञ्चविंशतिश्चरमो निःशङ्कितः शुद्ध इति गाथार्थः॥५५९॥ अशुद्धमपि छद्मस्थपरीक्षया निःशङ्कितं गृहीतं भुक्तं च शुद्धमेव भवतीत्याह ___ छउमत्थो सुयनाणी गवेसए उज्जुओ पयत्तेणं। (टि०) १. दडं जे१॥ २. दहा जे२॥ ३. ०हणे य भो० जे१ विना॥ ४. भुंजिउं जे१। भुंजणे जे भां०॥ ५. ०वीसं जे१॥ ६. 'चरमो'त्ति जे१॥ ७. इयं गाथा मूलादर्शेषु नोपलभ्यते। तत्स्थाने अन्या गाथा दृश्यते साचेयम्- उग्गमदोसा सोलसं णव एसण दोस संक मोत्तूणं। पणुवीसे ते दोसा संकिय निस्संकिए सुद्धो॥ (वि०टि०) .. निष्कारणः = निरुपद्रवः इति मलय०॥ .. वीरगणिमते गहणे य भोयणे लग्गो ति पाठः स्यात्॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy