SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ॥ अभ्याहृतदोषनिरूपणम् ॥ च। अनयोः स्वरूपमाह- त्रिगृहान्तरात् परतो गृहान्तराभ्याहृतम्, चतुर्थगृहादेरानीतमेतच्चानाचरितं त्रिगृहान्तराभ्याहृतमाचरितमेवेति गाथार्थः॥३६०॥ णोघरंतरऽणेगविहं वाडग-साही - णिवेसण - 'गिहेसु । काये खंधे मिम्मय - कंसेण व तं तु आणेज्जा ॥ ३६१ ॥ = णोघरंतर गाधा । व्याख्या - नोगृहान्तरमनेकविधं तद्यथा- वाडग - साही- णिवेसण - गिहेसु वाटकः = व्यवच्छिन्नो ग्रामस्य पृथग्निवेशः, साही ग्रामगृहाणामेकेपाटी, निवेशनं = एकनिष्क्रमणप्रवेशानि द्वे बहूनि वा गृहाणि, गृहं = यद्दूरतरव्यवस्थितमेककम्, एतद्विषयमभ्याहृतं भवति तस्य चानयनं कापोत्या, स्कन्धेन मृन्मय- कांस्यभाजनादिना चेति गाथार्थः ॥३६१॥ नोनिशीथमाचरितं प्रकारान्तरेणाह - ३ सुणं व असइ कालो पगयं व पहेणगं व पासुत्ता । ४ इति एति काइ घेत्तुं दीवेइ य कारणं तं तु ॥ ३६२ ॥ ८९ सुण्णं व असइ गाहा । व्याख्या- काचिद् गृहिणी अभ्याहतमानीयैवमाह - यदा यूयं प्रविष्टास्तदा शून्यं गृहमासीद् भिक्षाकालो वा नासीत्, प्रकृतं = भोज्यमुच्यते, तद्वा जातं प्रहेणकं वाऽऽयातं प्रसुप्ता वाऽहं आसमिति गाथार्थः ॥३६२॥ स्वग्रा(मपरग्रा)माचरिता-ऽनाचरितं नोनिशीथाभ्याहृतमुक्तम्। अधुना परग्रामाभ्याहृतनिशीथमाहएसेव कमो नियमा निसीहाभिहडे वि होइ णायव्वो । अविदियदायगभावं निसिहाभिहडं तु नादव्वं ॥ ३६३ ॥ एसेव गाहा । व्याख्या - एष एवानन्तरोक्तः क्रमो नियमान्निशीथाभ्याहृतेऽपि ज्ञातव्यः । अस्य स्वरूपमाह— अविदितः = अज्ञातो दायकस्य भावो यस्मिन् तत्तथेति गाथार्थः ॥३६३॥ अथ कथमस्य सम्भवः ? तद् आह— अइदूरजलंतरिया कम्मासंकाए मा ण घेच्छंति । आणेति संखडीओ सड्ढो सड्डी व पच्छण्णं ॥ ३६४ ॥ अइदूर० गाहा। व्याख्या - अतिदूरमिति कृत्वा नागच्छन्ति अत्र यतयो जलान्तरिता वा आगता वा आधाकर्माद्याशङ्क्या न गृहीष्यन्ते एतदालोच्य आनयति सङ्खडीतः श्राद्धः श्राद्धी वा प्रच्छन्नमिति गाथार्थः ॥ ३६४॥ निगम देउल दाणं दियादि सण्णादिनिग्गते दाणं । सिहंमि सेसग्रहणं दिंतऽन्ने वारयंतऽण्णे।।३६५॥ (टि०) १. गिहे य खं० ॥ २. ०कपरिपाटी जि१ ॥ ३. तु जे२ ॥ ४. तु पागडं खं० ॥ ५. ० स्मिंस्तथैवेति जे१ ॥ ६. गमणं जे२ विना ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy