SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (३८) श्री आदिपुराणान्तर्गता द्वात्रिंशदिन्द्रकारिता: 'श्रीऋषभजिनस्तुतिः ' (प्रायः ईस्वी ८२५-८३५) (प्रतिमाक्षरावृत्तम्) जिननाथसंस्तवकृतौ भवतो वयमुद्यताः स्म गुणरत्ननिधेः । विधियोऽपि मन्दवचसोऽपि ननु त्वयि भक्तिरेव फलतीष्टफलम् ॥ १ ॥ मतिशक्तिसारकृतवाग्विभवस्त्वयि भक्तिमेव वयमातनुमः । अमृताम्बुधेर्जलमलं न पुमान्निखिलं प्रपातुमिति किं न पिबेत् ॥ २ ॥ क्व वयं जडाः क्व च गुणाम्बुनिधिस्तव देव पाररहितः परमः । इति जानतोऽपि जिन सम्प्रति नस्त्वयि भक्तिरेव मुखरीकुरुते ॥ ३ ॥ गणभृद्भिरप्यगणिताननणूंस्तव सद्गुणान्वयमभीष्टुमहे । किल चित्रमेतदथवा प्रभुतां तव संश्रितः किमिव नेशिशिषुः ॥ ४ ॥ (द्रुतविलम्बितवृत्तम्) तदियमीडिडिषन् विदधाति नस्त्वयि निरूढतरा जिननिश्चला । प्रसृतभक्तिपारगुणोदया स्तुतिपथेऽद्य ततो वयमुद्यताः ॥ ५ ॥ त्वमसि विश्वहगीश्वर विश्वसृद् त्वमसि विश्वगुणाम्बुधिरक्षयः । त्वमसि देव जगद्धितशासनः स्तुतिमतोऽनुगृहाण जिनेश नः ॥ ६ ॥ तव जनार्क विभान्ति गुणांशवः सकलकर्मकलङ्कनिविनिःसृताः । घनवियोगविनिर्मलमूर्तयो दिनमणेरिव भासुरभानवः ॥ ७ ॥ गुणमणींस्त्वमनन्ततयान्वितान् जिन समुद्वहसेऽतिविनिर्मलान् । जलधिरात्मगभीरजलाश्रितानिव मणीनमलाननणुत्विषः ॥ ८ ॥ त्वमिनसंसृतिवल्लरिकामिमामतितरामुरुदुःखफलप्रदाम् । जननमृत्युजराकुसुमाचितां शमकरैर्भवन्नुदपीपटः ॥ ९ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy