SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ (३२) श्रीमद्-भद्रकीर्तिसूरिविरचिता 'श्रीशान्तिदेवतासमेता जिनस्तुतिः ' (ईस्वी ८०० - ८२५) (मन्दाक्रान्तावृत्तम्) शान्तो वेषः शमसुखफलाः श्रोतृगम्या गिरस्ते कान्तं रूपं व्यसनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृतपतेस्त्वय्यसङ्गा विबोधे प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति ॥ १॥ अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं शमसुखफलः प्राप्तौ धर्मः स्फुट: शुभसंश्रयः । मनसि करुणा स्फीता रूपं परं नयनामृतं किमिति सुमते ! त्वय्यन्यः स्यात् प्रसादकरं सताम् ॥ २ ॥ ( वंशस्थ ) निरस्तदोषेऽपि तरीव वत्सले कृपात्मनि त्रातरि सौम्यदर्शने । हितोन्मुखे त्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् ॥ ३ ॥ सर्वसत्त्वहितकारिणि नाथे न प्रसीदति मनस्त्वयि यस्य । मानुषाकृतितिरस्कृतमूर्ते रन्तरं किमिह तस्य पशोर्वा ? ॥ ४ ॥ त्वयि कारुणिके न यस्य भक्तिजगदभ्युद्धरणोद्यतस्वभावे । न हि तेन समोऽधमः पृथिव्या मथवा नाथ ! न भाजनं गुणानाम् ॥ ५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy