SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १२२ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा माल्यानि वाक्स्तुतिमयैः कुसुमैः सदृब्धा न्यादाय मानसकरैरभितः किरन्तः । पर्येम आदृतियुता भगवन्निषद्याः संप्रार्थिता वयमिमे परमां गति ताः ॥ ७ ॥ शत्रुञ्जये नगवरे दमितारिपक्षाः पाण्डोः सुताः परमनिर्वृतिमभ्युपेताः ।। तुङ्गयां तु संगरहितो बलभद्रनामा नद्यास्तटे जितरिपुश्च सुवर्णभद्रः ॥ ८ ॥ द्रोणीमति प्रबलकुण्डलमेण्ढ़के च वैभारपर्वततले वरसिद्धकूटे । ऋष्याद्रिके च विपुलाद्रिबलाहके च विन्ध्ये च पोदनपुरे वृषदीपके च ॥ ९ ॥ सह्याचले च हिमवत्यपि सुप्रतिष्ठे । दण्डात्मके गजपथे पृथुसारयष्टौ । ये साधवो हतमलाः सुगतिं प्रयाताः स्थानानि तानि जगति प्रथितान्यभूवन् ॥ १० ॥ इक्षोविकाररसपृक्तगुणेन लोके ___पिष्टोऽधिकां मधुरतामुपयाति यद्वत् । तद्वच्च पुण्यपुरुषैरुषितानि नित्यं । स्थानानि तानि जगतामिह पावनानि ॥ ११ ॥ इत्यर्हतां शमवतां च महामुनीनां प्रोक्ता मयात्र परिनिर्वृतिभूमिदेशाः । ते मे जिना जितभया मुनयश्च शान्ताः दिश्यासुराशु सुगतिं निरवद्यसौख्यम् ॥ १२ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy