SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ (२१) पूज्यपाददेवनन्दीकृता 'श्रीनिर्वाणभूमिस्तुतिः' (प्रायः ईस्वी ६३५-६८०) (वसन्ततिलकावृत्तम्) यत्रार्हतां गणभृतां श्रुतपारगाणां निर्वाणभूमिरिह भारतवर्षजानाम् । तामद्य शुद्धमनसा क्रियया वचोभिः संस्तोतुमुद्यतमतिः परिणौमि भक्त्या ॥ १ ॥ कैलासशैलशिखरे परिनिर्वतोऽसौ शैलेशिभावमुपपद्यवृषो महात्मा । चम्पापुरे च वसुपूज्यसुतः सुधीमान् सिद्धि परामुपगतो गतरागबन्धः ॥ २ ॥ यत्प्रार्थ्यते शिवमयं विबुधेश्वराद्यैः पाखण्डिभिश्च परमार्थगवेषशीलैः । नष्टाष्टकर्मसमये तदरिष्टनेमिः । संप्राप्तवान् क्षितिधरे बृहदूर्जयन्ते ॥ ३ ॥ पावापुरस्य बहिरुन्नतभूमिदेशे पद्मोत्पलाकुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो । निर्वाणमाप भगवान्प्रविधतपाप्मा ॥ ४ ॥ शेषास्तु ते जिनवरा जितमोहमल्ला ज्ञानार्कभूरिकिरणैरवभास्य लोकान् । स्थानं परं निरवधारितसौख्यनिष्ठं सम्मेदपर्वततले समवापुरीशाः ॥ ५ ॥ आद्यश्चतुर्दशदिनैर्विनिवृत्तयोगः षष्ठेन निष्ठितकृतिर्जिनवर्द्धमानः । शेषा विधूतघनकर्मनिबद्धपाशाः मासेन ते यतिवरास्त्वभवन्वियोगाः ॥ ६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy