SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (८) श्रीजटासिंहनन्दीकृतं श्रीवरांगचरितांतर्गतं 'श्रीजिनस्तुत्यष्टकम्' (ईस्वी सप्तमशताब्द्याः मध्यभागः प्रायः) (वंशस्थवृत्तम्) विनष्टकर्माष्टक बुद्धिगोचरं समस्तबोध्येष्टहितार्थदर्शनम् । सुदृष्टिचारित्रपथाधिनायकं नतोऽस्मि निर्वाणसुखैधितं जिनम् ॥ १ ॥ व्यपेतसर्वेषणधीरसद्व्रतं प्रशस्तशुक्लप्रविधूतदुर्नयम् । अवाप्तनिर्वाणसुखं निरामयं नतोऽस्मि तं विघ्नविनायकं जिनम् ॥ २ ॥ प्रपश्यतां दृष्टिपथानुरोधिनीं सुरूपतां चापि सुयौवनं वपुः । सुबिभ्रतो यस्य मनो मनोभुवा न नाशितं तं प्रणतोऽस्मि यत्नतः ॥ ३ ॥ चतुर्विधामेत्य गतिं सुदुःखिताः स्मराग्निना ये निहताः शरीरिणः । शमाम्भसा शान्तिमिताः स यस्य वै जिनो हि मेऽद्य प्रददातु सत्सुखम् ॥ ४ ॥ शरीरिकायस्थितिसङ्गदर्शिनं निरञ्जनं निर्दुरितं निरामयम् । अमोघविद्यं निरवद्ययोगिनं शरण्यतां यामि तमद्य शान्तये ॥ ५ ॥ त्रिलोकबन्धुस्त्रिजगत्प्रजाहित स्त्रिलोकचूडामणिराप्तकेवलः । त्रिकालदर्शी सुगतिं समेयिवा न्स मां जिनो रक्षतु दुःखसंकटात् ॥ ६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy