SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीजटासिंहनन्दीकृतश्रीवरांगचरितस्थस्तुतिरूपम् 'श्रीसाधारणजिनमंगलम्' (ईस्वीसन् सप्तमशताब्धाः मध्यभागः प्रायः) __ (वसन्ततिलकावृत्तम्) अर्हस्त्रिलोकमहितो हितकृत्प्रजानां धर्मोऽर्हतो भगवतस्त्रिजगच्छरण्यः । ज्ञानं च यस्य सचराचरभावदर्शि रत्नत्रयं तदहमप्रतिमं नमामि ॥ १ ॥ येनेह मोहतरुमूलमभेद्यमन्यै रुत्पाटितं निरवशेषमनादिबद्धम् । यस्यर्द्धयस्त्रिभुवनातिशयास्त्रिधोक्ताः सोऽर्हञ्जयत्यमितमोक्षसुखोपदेशी ॥ २ ॥ प्राप्येत येन नृसुरासुरभोगभारो नानातपोगुणसमुन्नतलब्धयश्च पश्चादतीन्द्रियसुखं शिवमप्रमेयं धर्मो जयत्यवितथः स जिनप्रणीतः ॥ ३ ॥ ज्ञानेन येन जिनवक्त्रविनिर्गतेन त्रैलोक्यभूतगुणपर्ययसत्पदार्थाः । ज्ञाताः पुनर्युगपदेव हि सप्रपञ्चं जैनं जयत्यनुपमं तदनन्तरं तत् ॥ ४ ॥ अर्हन्मुखागतमिदं गणदेवदृष्टं सद्धर्ममार्गचरितं परया विशुद्धया । संश्रृण्वतः कथयतः स्मरतश्च नित्य मेकान्ततो भवति पुण्यसमग्रलम्भः ॥ ५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy