SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि इति प्रभो ! लोक-हितं यतो मतं ततो भवानेव गतिः सतां मतः ॥ २० ॥ __ (उपजाति) अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेषेषु मतेषु नास्ति सर्वक्रियाकारकतत्त्वसिद्धिः ॥ २१ ॥ अनेकमेकं च तदेव तत्त्वं भेदाऽन्वयज्ञानमिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥ २२ ॥ सतः कथञ्चित्तदसत्वशक्तिः खे नास्ति पुष्पं तरुषु प्रसिद्धम् । सर्वस्वभाव-च्युतमप्रमाणं स्व-वाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ २३ ॥ न सर्वथा नित्यमुदेत्यपैति न च क्रियाकारकमत्र युक्तम् । नैवाऽसतो जन्म सतो न नाशो दीपस्तमः पुद्गलभावतोऽस्ति ॥ २४ ॥ (उपेन्द्रवज्रा) विधिनिषेधश्च कथञ्चिदिष्टौ विवक्षया मुख्यगुणव्यवस्था । इति प्रणीतिः सुमतेस्तवेयं मतिप्रवेकः स्तुवतोऽस्तु नाथ ! ॥ २५ ॥ (उपजाति) पद्मप्रभः पद्मपलाशलेश्यः पद्मालयाऽऽलिङ्गितचारुमूर्तिः । बभौ भवान् भव्य-पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ २६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy