SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठमोऽध्यायः। ४२१ अथोत्तमोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् ।। द्विकं त्रिकंचतुकं पञ्चकञ्च शतं वर्णानुक्रमेण .. प्रतिमासम् सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दधुः । अकृतामपि वत्सराति क्रमेण यथाविहिताम् । आध्युपभोगेवृद्धयभावः। देवराजोपघातादृते विनष्टमाधिमुद्दमों दद्यात् । अन्तवृद्धौ प्रविष्टायामपि। न स्थावरमाधिमृते वचनात् गृहीतधनप्रवेशार्थमेव यत् स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् । दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्द्ध ते । हिरण्यस्य परा वृद्धिर्द्विगुणा। धान्यस्य त्रिगुणा। वस्त्रस्य चतुर्गुणाः । सन्ततिः स्त्रीपशूनाम् । किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गाराणामक्षया । अनुक्तानां द्विगुणा। . प्रयुक्तमथं यथाकथञ्चित् साधयन्न राज्ञो वाच्यः स्यात् । साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः। उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमों राज्ञे धनदशभागसम्मितं दण्डं दद्यात् । प्राप्तार्थश्वोत्तमो विंशतितममंशम् । सपिलाप्येकदेशविभावितोऽपि सर्व दद्यात् । तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समक्रिया च। ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy