SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [ सप्रमो मनुस्मृतिः। यथोद्धरति निर्दाता कक्ष धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्र हन्याच परिपन्थिनः ॥११० मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराद्मश्यते राज्याज्जीविताच सबान्धवः ॥१११ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः श्रीयन्ते राष्ट्रकर्षणात् ॥११२ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥११३ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥११४ ग्रामस्याधिपतिं कुर्याद्दशग्रामपति तथा। बिंशतीशं शतेशं च सहस्रपतिमेव च ॥११५ ग्रामदोषान्समुत्पन्नान्यामिकः शनकैः स्वयम् । शंसेग्रामदशेशाय दशेशो विंशतीशिने ॥११६ विंशतीशस्तु तत्सवं शतेशाय निवेदयेत् । शंसेग्रामशतेशस्तु सहस्रपतये स्वयम् ॥११७ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥११८ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥११६ तेषां ग्राम्याणि कार्याणि पृथकार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥१२०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy