________________
कैवल्यापदमिश्वरं जगध्धत्रासाग्नि कर्कालालाधितम् । श्री विष्णुभव बन्धभीत शरणं देवाधिदेवं प्रभुं ॥ भक्तानामभयं पदं सुमनसा मानन्ददं श्रीधरम् । वन्दे देव गदाधरं जलधरश्याम सदा माधवम् ॥५॥ योसत्यामपि वाचि वाक्पदुरहो घ्राणं विना जिघ्रति । योकर्णोपि शृणों त्यलं च नयना भावेऽपि सर्वार्थ दृक् ॥ योगच्छत्यपि निष्पदो काइहा गृहातितं विश्वपां । वन्दे देव गदाधरं जलधरश्याम सदा माधवम् ॥६॥ आद्य श्री जगदीश्वरं गुणनीधि वृन्दारकै पूजितम् ।। सर्वेशं वरदं दयार्द्र हृदयम् कामप्रदं सेविताम् ॥ शंखाद्यै रूप शोभितं वरतनु ज्ञेयं पवित्रं शुचिम् । वन्दे देव गदाधरं जलधरश्यामं सदा माधवम् ॥७॥ वक्षः कौस्तुभ शोभितं विजयते स्थानं श्रीयो यस्यतम् । शाङगद्या युध धारिणं मधुरिपु तं पद्मनाभं शुभम् ॥
श्री वत्सेव च लांच्छितं सुरवरै भक्तिश्च संपूजितं । : वन्दे देव गदाधरं जलधरश्यामं सदा माधवम् ॥८॥
श्रीमद् देव गदाधराष्टकमिदं नित्यं पठन्ते नराः ।। संप्राप्यैव निजं समीहित फलं सर्वतथान्ते पुनः ॥ देवैः किन्नर चारणादिभिरमी संभाव्य माना मुदा । तल्लोकं दुरितादि दोष रहितं गच्छन्ति निष्पातकाः ॥९॥
: संपादक गोविंदलालजी, प्रोफेसर, इन्दोर.