SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ मनोमयूरो भवतोऽभ्रतो मे संप्राप्य वाणीप्रियवर्षणं हि । हर्षातिरेकात्प्रकरोति नृत्यं श्रीमन् कलापूर्ण मुनीन्द्र ! नित्यम् ॥ १३ ॥ उपजाति निबिडतिमिरजालच्छेदनेनैव सद्यः प्रकटितशिवमार्गः शोषयन् कर्मपङ्कम् । दधदतनुकहर्षः प्राणिपद्मौघबोधे जयति जगति सूर्यः श्रीकलापूर्णसूरिः ॥ १४ ॥ जनकुमुदसमूहं बोधयन् संप्रपूर्णः सकलकलकलाभि - निर्मलः सद्यशोभृत् । विशदनिजकगोभिस्त्वर्पयश्चित्तशान्तिम् जयति जगति चन्द्रः श्रीकलापूर्णसूरिः ॥ १५ ॥ मालिनी श्रुतसलिल - सुपूर्णामाचरञ् शास्त्रवर्षां सकलमनुजचित्त - क्लेशवह्नि निरस्यन् । नृगणहृदयभूमौ पोषयन् बोधिबीजम् जयति जगति मेघः श्री कलापूर्णसूरिः ॥ १६ ॥ मालिनी अपूर्वस्त्वं राशी कोऽपि श्री कलापूर्ण ! विद्यसे । प्रयासि सततं वृद्धि क्षयं नैव कदाचन ॥ १७ ॥ भ्राजमाने कलापूर्ण ! भास्करे जगति त्वयि । अन्धा जना न पश्यन्ति दोषः किमत्र ते भवेत् ॥ १८ ॥ ममैकेच्छा कलापूर्ण ! वर्तते स्वान्तमन्दिरे । भवेयं त्वत्पदाब्जालि - जिघ्राणो गुणसौरभम् ॥ १९ ॥ • कलापूर्णाय पूज्याय मोहरात्रिविमुद्रिते । मामकीने मनोऽम्भोजे मार्तण्डाय नमो नमः ॥ २० ॥ हे * * * * * * * * * * * * * 930
SR No.032613
Book TitleKahe Kalapurnasuri Part 01 Gujarati
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherShanti Jin Aradhak Mandal
Publication Year2003
Total Pages708
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy