SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ १२१ द्वादशः सर्गः तस्य रावणस्यापि हृदयं = वक्षस्थलं भित्त्वा = विदीर्य उरसा गच्छन्तीति उरगास्तेभ्यः उरगेभ्यः = सर्पेभ्यः, पातालवासिभ्यः प्रियं = भूभारहरणरूपम् आख्यातुं = कथयितुम् इव = उत्प्रेक्षायाम् , भुवं = पृथिवीं विवेश प्रविष्टः । हिन्दी-राम का फेंका हुआ बाण, रावण के भी हृदय ( छाती ) को फाड़कर जमीन में घुस गया। वह बाण ऐसा लगा, मोनों पाताललोक के निवासी साँपों को राक्षसराज रावण के मरने की शुभ सूचना देने गया हो ॥ ९१ ॥ वचसेव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः । अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ९२ ॥ वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः। वादिनोः कथकयोरिव ! अन्योन्यविषये जयसंरम्भो ववृधे ।। अन्वयः-वाक्यं वचसा एव अस्त्रम् अस्त्रेण निघ्नतोः तयोः वादिनोः इव अन्योन्यजयसंरम्भः ववृधे । ___ व्याख्या-वाक्यं = सुतिङ्चयरूपं वचसा= वचनेन “भाषितं वचनं वचः” इत्यमरः । एव अस्त्रम् = आयुधम् अस्त्रेण = शस्त्रेण निघ्नतोः = खण्डयतोः तयोः रामरावणयोः वदतः तच्छीलौ वादिनौ तयोः वादिनोः = कथकयोः इव = यथा अन्योन्यस्य = परस्परस्य जयः = विजयः, इति अन्योन्यजयः । तदर्थ यः संरम्भः = क्रोधः, इति अन्योन्यजयसंरंभः ववृधे = प्रवृद्धः । स्वस्वविजयार्थ कोपपूर्णौ तौ जातौ इत्यर्थः। समासः-अन्योन्यस्य जयस्तदर्थ यः संरम्भः इति अन्योन्यजयसंरम्भः । हिन्दी-वाणी को वाणो से और अस्त्र को अस्त्र से काटते हुए, रण में लड़ने वाले राम और रावण का कोध उसी प्रकार बढ़ रहा था, जैसे कि शास्त्रार्थ करने वाले, वादी प्रतिवादियों का आपस में विजयके लिये क्रोध बढ़ता जाता है ।। ९२ ॥ विक्रमव्यतिहारेण सामान्याभूद् द्वयोरपि । जयश्रीरन्तरा वेदिमत्तवारणयोरिव ॥ ९३ ॥ जयश्रीविक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि । अन्तरा मध्ये। अव्ययमेतत् । वेदिवेंद्याकारा भित्तिर्मत्तवारणयोरिव । सामान्या साधारणाभूत् । न त्वन्यतरनियतेत्यर्थः। अत्र मत्तवारणयोरित्यत्र द्वयोरित्यत्र च 'अन्तरान्तरेण युक्ते' इति द्वितीया न भवति । अन्तराशब्दस्योक्तरीत्यान्यत्रान्वयात् । मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः । अन्वयः-जयश्रीः विक्रमव्यतिहारेण द्वयोः अपि अन्तरा, वेदिः मत्तवारणयोः इव सामान्या अभूत् । व्याख्या-जयस्य = विजयस्य श्रीः = लक्ष्मीरिति जयश्रीः विक्रमस्य =शौर्यस्य व्यतिहारः = विनिमयस्तेन विक्रमव्यतिहारेण द्वयोः= तयोः रामरावणयोः अपि अन्तरा = मध्ये ( “परिदानं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy