SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ १२० रघुवंशे हिन्दी-इन्द्र अग्नि आदि आठ दिक्पालों को जीतने वाले, और अपने मस्तक काटकर शिव की पूजा करने वाले, तथा कैलाश पर्वत को उठाने वाले, रावण रूपी शत्रुको ( सामने देखकर ) राम ने बहुत माना । अर्थात् धीर वीर शूर शत्रु को सामने देखकर रामचन्द्रजी ने इस लिये उसका बहुत मान किया कि मेरे पराक्रम के योग्य अच्छा योद्धा आज ही मिला है ॥ ८९ ॥ तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ ९० ॥ अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे । 'न बहुव्रीहौ' इतीतरशब्दस्य सर्वनामसंज्ञाप्रतिषेधः । भुजे शरं निचखान निखातवान् । अन्वयः-अधिकक्रोधः पौलस्त्यः स्फुरति “अत एव" सीतासंगमशंसिनि तस्य सव्येतरे भुजे शरं निचखान। व्याख्या-अधिकः = प्रचुरः क्रोधः = कोपः यस्य सः अधिकक्रोधः पौलस्त्यः =रावणः स्फुरति = स्पन्दमाने, अत एव सीतायाः =जानक्याः संगमः =सङ्गः, समागम इत्यर्थः इति सीतासमागमः। तं शंसति, तच्छीलः, इति सीतासंगमशंसी। तस्मिन् सीतासंगमशंसिनि, सीतामिलनसूचके इत्यर्थः। “मेलके संगसंगमौ” इत्यमरः। सव्येतरे = दक्षिणे “वामं शरीरं सव्यं स्यात्" इत्यमरः । भुजे = बाहौ शरं = बाणं निचखान = निखातवान् । “न बहुव्रीहौ" इति बहुव्रीहिंसमासे इतरशब्दस्य सर्वनामसंज्ञानिषेधेन नात्र स्मिन्नादेशः ॥ समासः-अधिकः क्रोधो यस्य सः अधिकक्रोधः। सीतायाः संगमः सीतासंगमः, सीतासंगमस्य शंसी, इति सीतासंगमशंसी तस्मिन् सीतासंगमशंसिनि। सव्यः इतरः यस्मात् स सव्येतरस्तस्मिन् सव्येतरे। __ हिन्दी-अति क्रुद्ध होकर रावण ने फड़कती हुई राम की उस दाहिनी भुजा में बाण मारा, जो कि "शीघ्र होने वाले" सीताजी के समागम को बतला रहा था। विशेष-पुरुष का दाहिना अंग फरकना कल्याण का सूचक होता है ॥ ९० ॥ रावणस्यापि रामास्तो मित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ ९१ ॥ रामेणास्तः क्षिप्त आशुगो बाणः। विश्रवसोऽपत्यं पुमान्रावणः। विश्रवःशब्दादपत्येऽर्थेऽण्प्रत्यये सति 'विश्रवसो विश्रवणरवणौ' इति रवणादेशः। तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदार्य । उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव भुवं विवेश ॥ अन्वयः-रामारतः आशुगः रावणरय अपि हृदयं भित्त्वा उरगेभ्यः प्रियम् आख्यातुम् इव भुवं विवेश। व्याख्या-रामेण = राघवेण अरतः =त्यक्तः, प्रक्षिप्तः इति रामास्तः आशु शीघ्र गच्छतीति आशुगः = बाणः, विश्रवसोऽपत्यं पुमान् रावणः। विश्रवश्शब्दस्य रवणादेशः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy