SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ रघुवंशे तस्यामवत्क्षणशुचः परितोषलामः कक्षाग्निलचिततरोरिव वृष्टिपातः ॥ ९२ ॥ तस्मिन्भार्गवे गते सति। विजयिनं रामं पिता स्नेहात्परिरभ्यालिङ्गय पुनर्जातमेवामन्यत । क्षणं शुग्यस्येति विग्रहः, क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषप्राप्तिः कक्षाग्निना दावानलेन। 'कक्षः शुष्ककाननवीरुधोः' इति विश्वः । लचितस्याभिहतस्य तरोवृष्टिपात इव अभवत् ॥ अन्वयः-तस्मिन् गते सति, पिता स्नेहात् विजयिनं रामं परिरभ्य पुनः जातम् एव अमन्यत, क्षणशुचः तस्य परितोषलाभः कक्षाग्निलंधिततरोः वृष्टिपातः इव अभवत् । व्याख्या--तस्मिन् = परशुरामे गते = अन्तहिते सति पिता=जनको दशरथः स्नेहात् = पुत्रप्रेम्णः विजयोऽस्यास्तीति विजयी तं विजयिनं = जयशोलं रामं राघवं परिरभ्य =आलिंग्य पुनः = भूयः जातम् = उत्पन्नम् एव अमन्यत = मन्यते स्म । क्षणं = मुहूर्त शुक् = शोकः यस्य स तस्य क्षणशुचः तस्य राज्ञो दशरथस्य परितोषस्य = सन्तोषस्य लाभः = प्राप्तिः इति परितोषलाभः कक्ष स्य = शुष्कारण्यस्य अग्निः= वह्निरिति कक्षाग्निस्तेन लंधितः=अभिहतः ज्वलित इत्यर्थः यः तरुः = वृक्षः तस्य कक्षाग्निलंधिततरोः वृष्टे: वर्षणस्य पातः = पतनम् इव = यथा अभवत् = अभूत् । यथाहि वर्षणेन दावाग्निः शाम्यति एवमेव भार्गवेऽन्तर्भूते सति दशरथस्य शोकोऽपि शान्त इति भावः। समासः-क्षणं शुग यस्य स क्षणशुक् तस्य क्षणशुचः। वृष्टेः पातः वृष्टिपातः। परितोषस्य लाभः परितोषलाभः। कक्षस्य अग्निः कक्षाग्निः तेन लवितः यः तरुः इति कक्षाग्निलचिततरुः तस्य कक्षाग्निलंधिततरोः । हिन्दी-"आशीर्वाद देकर" परशुराम जी के चले जाने पर दशरथ जी ने प्रेम से विजयो राम का आलिंगन करके यही अनुभव किया कि राम का दूसरा ही जन्म हुआ है। थोड़ी सी देर के दुःखी दशरथ जी को वैसे ही सन्तोष मिला जैसे कि जंगल की आग से जले वृक्ष को वर्षा का जल मिल जाय ।। ९२ ।। अथ पथि गमयित्वा क्लुप्तरम्योपकायें कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षा लोचनैरङ्गनानाम् ॥ ९३ ॥ अथ। ईषदसमाप्तः शर्वः शर्वकल्पः। 'ईषदसमाप्तौ-' इति कल्पप्प्रत्ययः । अवनिपालः क्लृप्ता रम्य नवा उपकार्या यस्मिन्स तस्मिन्पथि कतिचिच्छवरी रात्रीगमयित्वा मैथिलीदर्शनीनामङ्गनानां लोचनैः कुवलयानि येषां संजातानि कुवलयिताः 'तदस्य संजातं तारकादिभ्य इतच्' इतीतच्प्रत्ययः । कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यामविशत्प्रविष्टवान् ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy