SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः व्याख्या--मान्यते इति माता । माति गर्भोऽस्यां वा माता =जननी। मातुरागतं मातृकं = रेणुकासंबन्धि, रजसा =रजोगुणेन निर्मितं राजसं तस्य भावः कर्म वा राजसत्वं = रजोगुणप्रधानत्वं, परशुरामस्य मातुः रेणुकादेव्याः क्षत्रियत्वात् इति भावः । अवधूय = तिरस्कृत्य पितुः आगतं पित्र्यं = महर्षिजमदग्निसंबन्धिनं शमं = शान्ति यदा=यस्मिन्काले गमितः =प्रापितः अस्मि = भवामि तदा = तस्मिन्काले त्वया = रामचन्द्रेण अनिन्दितम् = अगर्हितं भार्गवेणापेक्षितत्वात् अभीष्टमेवेति भावः फलं स्वर्गहानिरूपं यस्य सः अनिन्दितफल: अयं = त्वत्कृतः निग्रहः= निरोधः अपकारः इत्यर्थः 'निग्रहस्तु निरोधः स्यादि'त्यमरः । अपि अनुग्रहणमनुग्रहः। न अनुग्रहः अननुग्रहः, अननुग्रहः अनुग्रहः संपद्यमानः कृतः अनुग्रहीकृतः = उपकारीकृतः ननु खलु, निश्चयेनेत्यर्थः। समासः-न निन्दितमिति, अनिन्दितम् , अनिन्दितं फलं यस्य सः अनिन्दितफलः । हिन्दी-क्षत्रिय माता से प्राप्त हुए मेरे रजोगुण को दूर करके पिता के सत्त्वगुण से प्राप्त शान्ति को प्राप्त करा दिया अर्थात् क्षात्र धर्म से हटा कर सतोगुणी मात्र कर दिया। यह आप ने मुझे दण्ड देकर भी उपकृत ही किया है । क्योंकि इस दण्ड का परिणाम उत्तम है। अर्थात् स्वर्ग में न जाकर यहों तपस्या करना मुझे अभिलषित है ॥९॥ साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः । ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ ९१ ॥ अहं साधयामि गच्छामि। देवकार्यमुपपादयिष्यतः संपादयिष्यतस्तेऽविघ्नमस्तु विनाभावोऽस्तु । 'अव्ययं विभक्ति-' इत्यादिनार्थाभावेऽव्ययीभावः। सह लक्ष्मणेन सलक्ष्मणस्तम् । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। लक्ष्मणाग्रज राममिति वच ऊचिवानुक्तवान् । बञः कसुः । ऋषिस्तिरोदधेऽन्तर्दधे॥ ___ अन्वयः-अहं साधयामि देवकार्यम् उपपादयिष्यतः ते अविघ्नम् अस्तु । सलक्ष्मणं लक्ष्मणाग्रजम् इति वचः ऊचिवान् ऋषिः तिरोदधे । व्याख्या-अहं =परशुरामः साधयामि गच्छामि देवानां = सुराणां कार्य = भूभारहरणं, देवकार्यम् उपपादयिष्यतीति उपपादयिष्यन् तस्य उपपादयिष्यतः = साधयिष्यतः ते = तव रामस्य विघ्नानाम् अभावः अविघ्नम् =अन्तरायाणामभावः. अस्तु =भवत. इत्याशीर्वचनं रामम्प्रति भार्गस्येति यावत् । लक्ष्मणेन सह सलक्ष्मणः तं सलक्ष्मणं, लक्ष्मणस्य अग्रजः लक्ष्मणाग्रजस्तं लक्ष्मणाग्रज =रामम् इति पूर्वोक्तं वचः = वचनम् ऊचिवान् = उक्तवान् ऋषिः = परशुरामः तिरोदधे = अन्तर्दधे, तिरोहित इत्यर्थः। समासः-देवानां कार्यमिति देवकार्यम् तत्। विघ्नानाम् अभावः अविघ्नम् । लक्ष्मणेन सह इति सलक्ष्मणस्तं सलक्ष्मणम् । लक्ष्मणस्य अग्रज इति लक्ष्मणाग्र जस्तं लक्ष्मणाग्रजम् । _ हिन्दी-"अब" मैं जाता हूँ। देवताओं का जो कार्य सिद्ध करना आप चाहते हैं वह बिना विघ्न के पूर्ण हो । राम और लक्ष्मण से इस प्रकार कहकर परशुराम जी अन्तर्धान हो गये। तस्मिन्गते विजयिनं परिरभ्य राम स्नेहादमन्यत पिता पुनरेव जातम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy