SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ ५४ रघुवंशे ___ अन्यदाऽन्यस्मिन्काले। जगति राम इत्ययं शब्द उच्चरितः सन्मामेवागात् । संप्रति त्वय्युदयोन्मुखे सति व्यस्तवृत्तिविपरीतवृत्तिः। अन्यगामीति यावत् । स शब्दो मे व्रीडमावहति लज्जां करोति ॥ अन्वयः-अन्यदा जगति रामः इति अयं शब्दः उच्चरितः सन् माम् एव अगात् सम्प्रति त्वयि उदयोन्मुखे सति व्यस्तवृत्तिः सः मे व्रीडम् आवहति । व्याख्या-अन्यस्मिन् काले अन्यदा = इतः पूर्वं गच्छतीति जगत् तस्मिन् जगति = संसारे रमन्तेऽस्मिन्निति रामः। इत्ययं शब्दः= रामशब्दः उच्चरितः = उच्चारणविषयीभूतः सन् मां = भार्गवम् एव अगात् = अगच्छत् । सम्प्रति = इदानीं त्वयि = राघवे उदयाय = उन्नत्य उन्मुखः = उद्यतः तस्मिन् उदयोन्मुखे सति-उन्नतितत्परे सतीत्यर्थः "उदयः पर्वतोन्नत्योः” इति हैमः । व्यस्ता = विपरीता वृत्तिः =वर्तनं यस्य स व्यस्तवृत्तिः = अन्यवाचक इत्यर्थः । स शब्दः =रामशब्दः मे =मह्यं भार्गवाय वीडं = लज्जाम् आवहति = करोति । “मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा" इत्यमरः । घञिप्रत्यये तु व्रीडः, इत्यपि भवति “व्रीडोऽक्लीबे त्रपा लज्जा" इति च कोषः । समास -उदयाय उन्मुखरतस्मिन् उदयोन्मुखे व्यरता । वृत्तिर्यस्य स व्यस्तवृत्तिः । हिन्दी--पहले संसार में राम शब्द कहने पर मेरा ही ज्ञान होता था। अर्थात् मुझे ही लोग राम समझते थे। किन्तु अब तुम्हारे बढ़ने पर दूसरे को भी कहने वाला ( दशरथ के पुत्र का भी वाचक ) राम शब्द मुझे लज्जा कर रहा है। अर्थात् अब राम कहाने में शरम लग रही है ॥ ७३ ॥ बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतो समागसौ । धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ७४ ॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधौ रिपू मतौ। धेनोः पितृहोमधेनोवत्सस्य हरणाद्धेतोहहयः कार्तवीर्यश्च। कीर्तिमपहर्तुमुद्यत उद्यत्तस्त्वं च। वत्सहरणे भारतश्लोकः--'प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो वनात् । जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥' इति ।। अन्वय--अचले अपि अकुण्ठितम् , अस्त्रं विभ्रतः मम द्वौ समागसौ रिपू मतौ। धेनुवत्सहरणात् हैहयः च कीर्तिम् अपहर्तुम् उद्यतः त्वं च । व्याख्या-न चलति =न कम्पते इति अचलस्तस्मिन् अचले = पर्वते अपि कुण्ठा संजातास्येति कुण्ठितं, न कुण्ठितमिति अकुण्ठितम् = अप्रतिहतम् अस्त्रं = शस्त्रं बिभ्रतः = धारयतः, मम = भार्गवस्य द्वौ = द्विसंख्याको समे =समाने आगसी = अपराधौ ययोस्तौ समागसौ रिपू = शत्रू मतौ। धेनोः = होमधेन्वाः वत्सः = शकृत्करिस्तस्य हरणम् = अपहरणं तस्मात् धेनुवत्सहरणात् कारणात् “शकृत्करिस्तु वत्सः स्यादि" त्यमरः । हे भक्त हे भक्त इति वदन् गच्छतोति हेहयः = विष्णुः । तस्यायं हैहयः = कार्तवीर्यः। हैहयाः = देशविशेषाः, तद्वासी राजा च हैहयः। सहस्रार्जुन इत्यर्थः। च समुच्चये, कीर्तिम् = यशः अपहतुम् = नाशयितुम् उद्यतः = संलग्नः त्वं =दाशरथिश्च मम शत्रू मतौ इति संबन्धः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy