SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ २० रघुवंशे य्याणां पक्षाः = गरुतस्तेषां पवनः = वायुस्तेन ईरिताः = कम्पिताः ध्वजाः = पताकाः यस्य तत् , तथोक्तम् । “दाक्षाय्यगृध्रौ” “गरुत्पक्षच्छदाः पत्र" मिति चामरः । रक्षसां = राक्षसानां बलं = सेनाम् अपश्यत् = ददर्श।। समासः-लक्ष्मणस्य अग्रजः, लक्ष्मणाग्रजः । आश्रयस्य मुखं तस्मात् , आश्रयमुखात् । गृध्राणां पक्षारतेषां पवनस्तेन ईरिताः धजा यस्य तत् गृध्रपक्षपवनेरितध्वजम् , तत् । हिन्दी-उसी समय लक्ष्मण के बड़े भ्राता राम ने तरकस से बाण को निकालते हुये, ऊपर मुँह करके आकाश में राक्षसों की उस सेना को देख लिया, गिद्ध के पंखों के वायु से जिसकी ध्वजाएँ हिल रही थीं। विशेष-गिद्ध के पंखों को विशेषण देकर कवि ने अशुभ शकुन बताया है कि अब राक्षसों का विनाश निकट है। शीघ्र मरनेवाले के शिर पर या घर के ऊपरी भाग में गिद्ध रहते हैं । ऐसा शकुनार्णव का वचन है ॥ २६ ॥ तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २७ ॥ स रामस्तत्र रक्षसां बले यौ मखद्विषामधिपती तौ सुबाहुमारीचौ शरव्यं लक्ष्यमकरोत् । 'वेध्यं लक्ष्यं शरव्यं च' इति हलायुधः । इतरान्नाकरोत् । तथाहि । महोरगविसर्पिविक्रमो गरुडो गरुत्मान्राजिलेषु जलव्यालेषु प्रवर्तते किम् । न प्रवर्तते इत्यर्थः । 'अलगदों जलव्यालः समौ राजिलडुण्डभौ' इत्यमरः ।। अन्वयः-सः तत्र यौ मखद्विषाम् अधिपती, तौ शरव्यम् अकरोत् , इतरान् न अकरोत् , तथा हि-महोरगविसर्पिविक्रमः गरुडः राजिलपु प्रवर्तते किम् । व्याख्या-सः रामः, तत्र =राक्षससेनायाम् यौ = प्रसिद्धौ, मखन्ति = गच्छन्ति देवाः यत्र स मखः । मखं = यज्ञं द्विषन्तीति ते, तेषां मखद्विषाम् , अधिपती = स्वामिनौ, मुख्यौ सेनानायकौ तौ = सुबाहुमारीचौ शरवे = हिंस्राय हितं शरव्यं, शरान् व्ययतीति वा शरव्यं = लक्षम् अकरोत् = कृतवान् । इतरान् = अपरान् न कृतवान् । “लक्षं लक्ष्यं शरव्यम्" इत्यमरः । तथाहि उरसा गच्छन्तीति उरगाः। महान्तश्च ते उरगाः, महोरगाः। महोरगेषु = महासषु विसी =संचरणशीलः विक्रमः = पराक्रमः यस्य स तथोक्तः। गरुद्भिः = पक्षैः डयते =आकाशे गच्छतीति गरुडः =दैनतेयः “गरुत्मान् गरुडस्ताक्ष्यों वैनतेयः" इत्यमरः। राजिः = रेखा अस्ति, एषां ते राजिलाः = निर्विषद्विमुखाः सर्पास्ते, तेषु राजिलेषु प्रवर्तते किम् = नैव प्रवृत्तो भवतीत्यर्थः । “समौ राजिलडुण्डुभौ” इत्यमरः । पक्षिराट् गरुडः कदापि निर्विषद्विमुखसपेंषु जलव्यालेषु च न प्रहरति । एवमेव रामोऽपि सेनानायकौ हतवानिति भावः । समासः- महान्तश्च ते उरगाः महोरगाः, महोरगेषु विसपी विक्रमः यस्य स तथोक्तः । मखानां द्विषः, मखद्विषस्तेषां मखद्विषाम् ।। हिन्दी-श्रीराम ने राक्षसों की सेना में जो यज्ञ के विघातक, प्रसिद्ध सेनापति थे, उन्हीं दोनों सुबाहु और मारीच को अपने बाणों का निशान बनाया ( उन्हीं पर बाण छोड़े )। किम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy