SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ १९ एकादशः सर्गः यद्वा स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु । उभयत्रापि शास्त्रसंभवात् । यथाह भगवानापस्तम्बः'खादिरः स्रुवः पर्णमयीर्जुहूर्वैकङ्कतीः स्रुचो वा' इति ॥ अन्वयः-अथ बन्धुजीवपृथुभिः रक्तबिन्दुभिः प्रदूषितां वेदिं वीक्ष्य अपोढकर्मणां च्युतविकङ्कतस्रुचां ऋत्विजां संभ्रमः अभवत् । व्याख्या--बन्धुरिव जीवं जलमस्य स बन्धुजीवः = बन्धूकपुष्पमिव पृथवः =स्थूलास्तैः बन्धुजीवपृथुभिः। रक्तस्य = रुधिरस्य बिन्दवः = पृषताः तैः रक्तबिन्दुभिः । “पृषन्ति बिन्दुपृषताः पुमांसः" इत्यमरः। प्रदूषिताम् = उपहताम् , अपवित्रितामित्यर्थः । विद्यते शोधनेन ज्ञायते, विचार्यते, प्राप्यते वा, वेदिः = परिष्कृतभूमिस्तां वेदि = यज्ञार्यशोधितस्थानमित्यर्थः। “वेदिः परिष्कृता भूमिः' इत्यमरः। वीक्ष्य = दृष्ट्वा अपोढं = परित्यक्तं कर्म = यशक्रिया यैस्ते तेषाम्अपोढकर्मणां, विकङ्कतस्य = स्वादुकण्टकस्य स्रुचः = स्रुवाः, इति विकङ्कतस्रुचः । च्युताः = पतिताः परित्यक्ता इत्यर्थः। स्रुचः = येभ्यः तेषां च्युतविकंकतनुचाम् । “विकतः स्रुवावृक्षः" “स्रुवो भेदाः स्रुचः स्त्रियः” इति चामरः। ऋतौ यजन्तीति ऋत्विजः = याजकास्तेषां ऋत्विजां सम्भ्रमः =आवेगः, भयं वा अभवत् = जातः । “सम्भ्रमस्तु साध्वसेऽपि स्यादिति कोषः । समासः-रक्तस्य बिन्दवस्तैः रक्तबिन्दुभिः। बन्धुजीव इव पृथवस्तैः बन्धुजीवपृथुभिः । अपोढं कर्म यैस्ते अपोढकर्माणस्तेषाम् अपोढकर्मणाम् । च्युताः विकङ्कतस्य स्रुचः येभ्यस्ते, तेषां च्युतविकङ्कतस्रुचाम् । हिन्दी-और तभी बन्धुजीव दुपहरिया, (लाल फूल वाला छोटा पौधा ) के फूल के समान बड़ी-बड़ी खून की बून्दों से दूषित भ्रष्ट हुई यज्ञ की वेदि को देखकर यज्ञ करना छोड़ देने वाले, तथा जिनके खैर के बने स्रुवे ( यज्ञ में घी छोड़ने का पात्र ) भी हाथ से छूट गये, ऐसे उन यज्ञ करने वालों को भय हो गया। अर्थात् वेदि पर खून देखकर आश्चर्य से भरे ऋषियों ने यज्ञ बन्द कर दिया, और डर के मारे स्रुवा भी हाथ से छूट गया था ॥ २५ ॥ उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् । रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २६ ॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात्समुद्धरन् । उन्मुख ऊर्ध्वमुखोऽम्बरे । गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम् । रक्षसां दुनिमित्तसूचनमेतत् । तदुक्तं शकुनार्णवे-'आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्श्वभागे' इति । रक्षसां बलमपश्यत् ॥ अन्वयः-सपदि लक्ष्मणाग्रजः बाणम् आश्रयमुखात् समुद्धरन् उन्मुखः अम्बरे गृध्रपक्षपवनेरितध्वजम् रक्षसां बलम् अपश्यत् । व्याख्या-सपदि = झटिति, तत्क्षणमित्यर्थः । अग्रे= प्रथमं जात इति अग्रजः । लक्ष्मणस्य अग्रजः, लक्ष्मणाग्रजः =रामः, बाणं = शरम् आश्रयस्य मुखमिति आश्रयमुखं तस्मात् आश्रयमुखात् = तूणीरात् समुद्धरन् = निष्कासयन् उत् = ऊर्ध्व मुखं यस्य सः उन्मुखः = ऊर्ध्वाननः सन् , अम्बं = शब्दं रातीति अम्बरं तस्मिन् , अम्बरे =आकाशे गृध्राणां =दाक्षा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy