SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ रघुवंशे कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् । अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ २ ॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः । 'लब्धवर्णो विचक्षणः' इत्यमरः। तान्भजत इति लब्धवर्णभाक् । विद्वत्सेवीत्यर्थः । स राजा कृच्छलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान् । तथाहि । असुप्रायनां प्राणार्थिनामप्यर्थिता याच्या रघोः कुल कदाचिदपि न व्यहन्यत न विहता । न विफलीकृतेत्यर्थः । येरर्थिभ्यः प्राणा अपि समयन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥ अन्वयः-लब्धवर्णभाक् “सः” कृच्छ्रलब्धम् अपि सलक्ष्मणं तं मुनये दिदेश । असुप्रणयिनाम् “अपि” अर्थिता रघोः कुले कदाचिदपि न व्यहन्यत। व्याख्या- लब्धाः = प्राप्ताः वर्णाः = ख्यातयः, कीर्तयः यैस्ते-लब्धवर्णाः = विद्वांसरतान् भजते = सेवते, इति लब्धवर्णभाक् स राजा, कृन्ततीति कृच्छं तेन = कष्टेन लब्धः = प्राप्तस्तं, वृद्धावस्थायां यागाद्यनुष्ठानेन प्राप्तमित्यर्थः। लक्ष्मणेन सहितमिति सलक्ष्मणं = सानुजं तं =रामं मुनये = विश्वामित्राय दिदेश = दत्तवान् । यज्ञरक्षार्थ समर्पितवानित्यर्थः । कष्टलब्धं सुकुमारं बालकं कथं दत्तवानित्याह-असून् = प्राणान् प्रणयन्ति = प्रार्थयन्तीति असुप्रणयिनस्तेषाम्-असुप्रणयिनां =प्राणार्थिनामपि जनानाम् अर्थिता = याच्ञा रघोः कुले - रघुवंशे कदाचिदपि = जातु, कस्मिंश्चिदपि काले इत्यर्थः न व्यहन्यत =न विफलीकृता । 'कदाचिज्जातु' इत्यमरः । यैः याचकेभ्यः प्राणाः अपि दातुं शक्यन्ते तेषां पुत्रादिदानं—न विस्मयकारकमिति भावः। समासः-लब्धाः वर्णाः यैस्ते लब्धवर्णास्तान् भजते-इति लब्धवर्णभाक् । कृच्छ्रेण लब्धस्तम् । लक्ष्मणेन-सहितस्तम् । असूनां प्रणयिनस्तेषाम् । कदा च चित् चेत्यनयोः समाहारः कदाचित् । हिन्दी-विद्वानों की सेवा करने वाले राजा दशरथ ने, बड़ी तपस्या से प्राप्त हुवे, राम और लक्ष्मण को, विश्वामित्र मुनि के लिये दे दिया। अर्थात् मुनि के साथ यशरक्षार्थ भेज दिया। क्योंकि प्राणों के माँगने वालों को भी याचना रघुकुल में कभी भी व्यर्थ नहीं हुई थी ॥२॥ यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् । तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ ३ ॥ पार्थिवः पृथिवीश्वरस्तयो रामलक्ष्मणयोर्निर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति तावन्मरुत्सखैर्वायुसखैः । अनेन धूलिसंमार्जनं गम्यते । सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाशु विदधे विहिता। एतेन देवकार्यप्रवृत्तयोर्दैवानुकूल्यं सूचितम् ॥ अन्वयः-पार्थिवः तयोः निर्गमाय पुरमार्गसंस्क्रियां यावत् आदिशति, तावत् मरुत्सखैः सपुष्पजलवर्षिभिः पनैः सा आशु विदधे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy