SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः रामचन्द्रचरणारविन्दयोरन्तरङ्ग चर भृङ्गलीलया । तत्र सन्ति हि रसाश्चतुर्विधास्तान्यथारुचि सदैव निर्विश ॥ कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ १ ॥ कौशिकेन कुशिकापत्येन विश्वामित्रेणैत्याभ्यागत्य स क्षितीश्वरो दशरथः। अध्वरविवातशान्तये यज्ञविघ्नविध्वंसाय। काकपक्षधरं बालकोचितशिखाधरम् । 'बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः' इति हलायुधः। रामं याचितः किल प्रार्थितः खनु । याचेदिकर्मकादप्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनाम्' इति वचनात् । नायं बालाधिकार इत्याशङ्कयाहतेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि । अप्रयोजकमित्यर्थः । अत्र सगें रथोद्धतावृत्तम् । उक्तं च–'रान्नराविह रथोद्धता लगौ' इति ॥ प्रणम्य परमात्मानं श्रीधारादत्तशास्त्रिणा । क्रियते रुद्रसर्गस्य व्याख्या छात्रोपयोगिनी ॥ अन्वयः-कौशिकेन एत्य सः क्षितीश्वरः अध्वरविवातशान्तये काकपक्षवरं रामं याचितः किल। हि तेजसां वयः न समीक्ष्यते। __व्याख्या-कुशिकस्य ऋषेः अपत्यं पुमान् कौशिकस्तेन कौशिकेन = विश्वामित्रेण एत्य =दशरथसमीपमागत्य सः=प्रसिद्धः क्षितेः पृथिव्याः ईश्वरः =स्वामी दशसु =दिक्ष गतो रथो यस्य स दशरथः =अयोध्याधिपतिः अध्वरस्य = यज्ञस्य विधातः = विघ्नस्तस्य शान्तिः = शमनं नाश इत्यर्थः तस्यै। काकानां पक्ष इवेति काकपक्षः =वालानां शिखा, काकपक्षस्य = शिखायाः धरस्तं काकपक्षधरं रामं याचितः =प्रार्थितः किल = खलु । यज्ञरक्षणे समर्थानां बलशालिनामेवाधिकारो न तु बालानामित्याशंस्याह-हि = यतः तेजसा =तेजस्विनां प्रभावशालिनामित्यर्थः वयः = अवस्था न = नहि समीक्ष्यते = दृश्यते, अप्रयोजकत्वात् । याचित इत्यत्र याच्-धातोर्दिकर्मकत्वेन अप्रधाने कर्मणि क्षितीश्वरे (क्तः प्रत्ययः । समासः–क्षितेः ईश्वरः क्षितीश्वरः। अध्वरस्य विधातस्तस्य शान्तिः तस्यै । धरतीति धरः, काकानां पक्ष इवेति काकपक्षस्तस्य धरः। हिन्दी-कुशिक ऋषि के पुत्र विश्वामित्र ने अयोध्या में आकर प्रसिद्ध राजा दशरथ से अपने यज्ञ के विघ्न की शान्ति के लिये, अर्थात् यज्ञ में विघ्न करने वाले राक्षसों का नाश करने के लिये काकपक्ष ( कनपटियों में लम्बे-लम्बे बाल काकुल ) को धारण करने वाले बालक राम को माँगा । इस लिये कि तेजस्त्रियों की अवस्था नहीं देखी-विचारो जाती है। अर्थात् उनका तो प्रभाव पराक्रम ही देखा जाता है ॥ १॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy