SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः खण्डिता दैत्यानाम् असुराणाम् असिवारा यैस्ते तैः भग्नदैत्यासिवारः दन्तः दशनैः सुराणां-देवानां गजः-नागः इति सुरगजः-ऐरावतः इव-यथा पणस्य बन्धः, तेन पणबन्धेन-फलसिद्धया व्यक्तः = अनुमितः = ज्ञातः योगः = प्रयोगः येषां ते तैः पणबन्धव्यक्तयोगैः, उपायन्ते एभिस्ते उपायास्तैः उपायैःसामदामादिभिः, चतुर्भिः नयः नीति: इव-यथा, युगः यानाद्यंगः दारुविशेषः इव दीर्घाः प्रायताः लम्बायमाना इत्यर्थः, इति युगदीर्घास्तैः युगदीर्घः दोभिः-बाहुभिः भुजः हरिः विष्णुः इव-यथा तस्य इमे तदीयास्तैः तदीयः विसंबन्धिभिः अंश:-अंशभूतः, चतुर्भिः चतुःसंख्याकैः रामलक्ष्मणभरतशत्रुघ्नरित्यर्थः तैः-पुत्रैः प्रवति-रक्षति, अव्यते वा अवनिः पृथिवी तस्याः पतयः-स्वामिनः इति अवनिपतयस्तेषाम् अवनिपतीनां =भूपालानां पतिः-स्वामी राजराजः दशरथः चकाशे-दिदीपे। ____समास:-असेः धारा प्रसिधारा, दैत्यानाम् असिधारा, दैत्यासिधारा, भग्ना दैत्यासिधारा येस्ते तैः भग्नदैत्यासिधारैः । पणस्य बन्धः, पणबन्धः पणबन्धेन व्यक्तः योगः येषां ते, तैः पणबन्धव्यक्तयोगः। युगवत् दीर्घाः, तैः युगदीधैः । प्रवनेः पतयः, अवनिपतयस्तेषाम् अवनिपतीनाम् ।। हिन्दी-दैत्यों की तलवार की धार को तोड़ने वाले चार दांतों से जैसे ऐरावत सुशोभित होता है, और फल की प्राप्ति से जाना गया है प्रयोग जिनका ऐसे साम, दान, दण्ड, भेद, इन चार उपायों से जैसे राजनीति शोभा पाती है, एवं रथ के जुए के समान लम्बी लम्बी चार भुजामों से जैसे विष्णु सुशोभित होता है, उसी प्रकार विष्णु के अंशभूत उन चार सुपुत्रों से राजामों के राजा दशरथजी सुशोभित हुए ॥८६॥ इति श्रीशांकरिधारादत्तशास्त्रिमिविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये रामावतारो नाम दशमः सर्गः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy