SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये संजी० - सेति । सा सुमित्रा । उभयोरपि । समान एकः पतिर्ययोस्तयोः सपत्न्योः । 'नित्यं सपत्न्यादिपु ' ( पा. ४ । ९ । ३५ ) इति ङीप् । नकारादेशश्च । भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव गण्डद्वयगतयोरिति भावः । प्रणयवती प्रेमवत्यासीत् । ' सपत्न्योः' इत्यत्र समासान्तर्गतस्य पत्युरूपमानं 'वारणस्य' इति ॥५७॥ अन्वयः -- हि सा उभयोः अपि सपत्न्योः भ्रमरी वारणस्य मदनिस्यन्दरेखयो: : इव प्रणयवती आसीत् । " न व्याख्या - " एवं सत्यपि ईर्ष्या न" हि यतः सा = सुमित्रा उभयोः द्वयोः प्रपि समानः एकः पतिः = भर्ता ययोस्ते तयोः सपत्न्योः = कौसल्या कैकय्योः भ्रमति = एकत्र तिष्ठतीति भ्रमरी - भृङ्गी भ्रमरस्य स्त्री वारयति शत्रुबलं वारणस्य मतङ्गजस्य मदस्य मदजलस्य निस्यन्दः - निस्यन्दनं स्रवणमित्यर्थः, इति मदनिस्यन्दः, मदनिस्यन्दस्य रेखे - लेखे - पङ्क्ती तयोः मदनस्यन्दरेखयोः इव=यथा प्ररणयः स्नेहोऽस्याः अस्तीति प्रणयवती- प्रेमवती श्रासीत् = अभवत् श्रतः सपत्नीत्वेऽपि ईर्ष्या नाभवदित्यर्थः । स वारणस्तस्य " समासः -- समानः पतिः ययोस्ते सपत्न्यौ तयोः सपत्न्योः । निस्यन्दते इति निस्यन्दः, मदस्य निस्यन्दः मदनिस्यन्दः, मदनिस्यन्दस्य रेखे, इति मदनिस्यन्दरेखे, तयोः मदनिस्यन्दरेखयो: । हिन्दी — " तीनों पक्षियों में ईष्यां नहीं थी" सौतों में उसी प्रकार प्रेम रखती थी, जैसे ( गण्डस्थल से ) बहते हुए मदजल की दोनों रेखानों में प्रेम करती है । अर्थात् जैसे भौंरी हाथों के दोनों गालों में बहती मद की रेखा पर समान प्रेम करती हैं। वैसे ही सुमित्रा दोनों रानियों में समान प्रेम करती थी ||१७|| ताभिर्गर्भः प्रजाभूत्यै दधे देवांश संभवः । सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥ ५८ ॥ संजी० - ताभिरिति । ताभिः कौसल्यादिभिः प्रजानां भूत्या अभ्युदयाय । देवस्य विष्णोरंशः संभवः कारणं यस्य स गर्भः । सूर्यस्येमाः सौर्यः, ताभिः सौरीभिः । ' सूर्यतिष्य - ' ( ६ |४| १४९ ) इत्युपधायकारस्य लोपः । अमृता ३७४ इसलिये कि वह सुमित्रा दोनों कि भ्रमरी ( भौंरी ) हाथी के
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy