SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ३७३ क्षितीश्वरस्य । विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह-चित्तज्ञ अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्या-ककेय्यौ। चरोर्यावर्धभागौ समभागौ तयोर्यावर्षी तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धार्धभागाभ्याम् । 'पुस्योऽधू समेंऽशके' इत्यमरः । तां सुमित्रामयोजयतां युक्तां चक्रतुः। अयं च विभागो न रामायणसंवादी; तत्र चरोरधं कौसल्याया अवशिष्टाध कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात् । किंतु पुराणान्तरसंवादी द्रष्टव्यः । उक्तं च नारसिंहे-'ते पिण्डप्राशने काले सुमित्रायै महीपतेः । पिण्डाभ्यामल्पमल्पं तु स्वभगिन्य प्रयच्छतः।।' इति । एवमन्यत्रापि विरोधे पुराणान्तरात्समाधातव्यम् ॥५६॥ अलयः-- वहुज्ञस्य पत्युः महीक्षितः चित्तज्ञे ते उभे पत्न्यौ, चरोः अर्धार्धभागाभ्यां ताम् अयोजयताम् । नयाख्य! - बहु जानातीति बहुज्ञस्तस्य बहुज्ञस्य - अनल्पविदः, उचितज्ञस्येत्यर्थः, पाति-रक्षतीति पतिः, तस्य पत्युः भर्तुः महीं मह्यां वा क्षियति इति महीक्षित् तस्य महीक्षित. पृथिवीश्वरस्य चित्तं-मानसं जानीतः वित्तः इति ते चित्तजे= अभिप्रायज्ञे ते पूर्वोक्ते उभे- द्वे पत्न्यौ-कौसल्याकैकय्यौ चरोः-पायसस्य, अधों च तौ भागौ अर्धभागो-समभागौ, तयोः यो अधौं तौ च तौ भागौ, इति अर्धाभागौ, ताभ्याम् अर्धाभागाभ्याम् तां-सुमित्राम् अयोजयताम् संयुक्तां चक्रतुः, सुमित्रायै स्वीकृतादर्धभागात् किंचित् किंचित् भागं ददतुरित्यर्थः । समासः-- बहु जानातीति बहुज्ञस्तस्य, बहुज्ञस्य । चितं जानीतः इति चित्तज्ञे। अधों च तौ भागौ, अर्धभागौ, तयोः यो अर्धी तौ भागौ इति अर्धाभागौ, ताभ्याम् अधिभागाभ्याम् ।। हिन्दी--बहुत सब जानने वाले स्वामी राजा दशरथ के चित्त ( मनोभाव) को जानने वाली उन दोनों ( कौसल्या कैकेयी) रानियों ने खीर के आधे आधे. भाग से आधा आधा भाग उस सुमित्रा को दे दिया। विशेषः-यद्यपि इस प्रकार चरु का देना रामायण के विरुद्ध है, क्योंकि रामायण में राजा ने ही तीनों रानियों को बाँटा है। फिर भी नारसिंह पुराण के अनुसार महाकवि का यह वर्णन है ॥५६।। सा हि प्रणयक्त्यासोत्सपत्न्योरुभयोरपि । भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः ॥५७।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy