SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ३४० रघुवंशमहाकाव्ये ननु कूटस्थस्य कथं त्ररूप्यमित्याशङ्कयौपाधिकमित्याहरसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थाम्त्वमविक्रियः ॥१७॥ संजी०–रसान्तराणीति । एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदः, देशे देश ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाऽश्नुते प्राप्नोति । एव मविक्रियो निर्विकारः । एकरूप इत्यर्थः । त्वं गुणेषु सत्त्वादिष्ववस्थाः स्रष्टत्वादिरूपा अश्नुषे ॥१७॥ अन्वयः-यथा एकरसं दिव्यं पयः देशे देशे रसान्तराणि अश्नुते, एवम् अविक्रियः त्वं गुणेषु अवस्थाः "अश्नुषे"। व्याख्या-यथा येन प्रकारेण रस्यते-आस्वाद्यते इति रसः, एकः रसः यस्मिन् तत् एकरसं-मधुरैकरसं दिवि भवं दिव्यं पयः वर्षाजलमित्यर्थः देशे देशे-सर्वजन पदे-ऊषरादिप्रदेशे अन्यान् रसान् रसान्तराणि कलवणादीनि अश्नुते-प्राप्नोति एवम् नास्ति विक्रिया-विकृति: यस्मिन् सः अविक्रियः निर्विकारः एकरस इत्यर्थः त्वं विष्णुः गुणेषु सत्त्वरजस्तमस्सु अवस्थाः सृष्टिपालनप्रलयकर्तृत्वरूपाः प्रश्नुषे प्राप्नोषि । अत: कूटस्थोऽपि सन् त्वम् औपाधिकं त्रिरूपं प्राप्नोषि इति भावः। समासः-अन्ये रसाः रसान्तराणि तानि । एकः रसः यस्मिन् तत् एकरसम् । न विक्रिया यस्य सः अविक्रियः ।। हिन्दी-जिस प्रकार एक मधुर रस वाला वृष्टि का जल, पृथक् पृथक स्थानों में ( गिरकर ) दुसरे २ (खारा, कडुवा आदि ) रसवाला हो जाता है, उसी प्रकार विकारों से रहित तुम भी सत्त्व रज तमोगुणों के संबन्ध से सृष्टि. पालन, संहार कर्तृत्वरूप अवस्थाओं को प्राप्त होते हो । अर्थात् पाप औपाधिकभेद से भिन्न भिन्न रूप वाले हैं तथा स्वतः कूटस्थ ही हैं ॥१७॥ अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः । अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ।।१८।। संजी-अमेय इति । हे देव ! त्वममेयो लोकैरियत्तया न परिच्छेद्यः । मितलोकः परिच्छिन्नलोकः । अनर्थी निःस्पृहः । प्रावहतीत्यावहः पचाय च ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy