SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ३३९ मनसे, तयोः गोचरः विषयः, इति वाङ्मनसगोचरः, न वाङ्मनसगोचरः प्रवाङ्मनसगोचरस्तम् अवाङ्मनसगोचरम् एनं-विष्णुं तुष्टवुः = प्रस्तुवन् , स्तुति कृतवन्त इत्यर्थः । समासः-सुराणां द्विषः सुरद्विषस्तेषां सुरद्विषाम् । वाक् च मनश्चेति वाङ्मनसे तयोः गोचरः, न वाङ्मनसगोचरस्तमवाङ्मनसगोचरम् । हिन्दी-विष्णु के दर्शन करने के पश्चात् देवताओं ने देवद्रोही असुरों का नाश करने वाले उस विष्णु भगवान् को प्रणाम करके स्तुति के योग्य तथा वाणी और मन का जो विषय नहीं है ऐसे इस विष्णु की स्तुति करने लगे ॥१५॥ नमो विश्वसृजे पूर्व विश्वं तदनु बिभ्रते । अथ विश्वस्य संहत्रे तुभ्यं त्रेधास्थितात्मने ।।१६।। संजो०-नम इति । पूर्वमादौ विश्वसृजे विश्वस्राष्ट्रे तदनु सर्गानन्तरं विश्वं 'बिभ्रते पुष्णते । अथ विश्वस्य संहः। एवं त्रेधा सृष्टि-स्थिति-संहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्म-विष्णु-हरात्मने तुभ्यं नमः ॥१६॥ अन्वयः-पूर्व विश्वसृजे, तदनु विश्वं बिभ्रते, अथ विश्वस्य संहर्त्रे, एवं त्रेधास्थितात्मने तुभ्यं नमः । व्याख्या-पूर्वप्रथमम् विश्वं भुवनं सृजति =उत्पादयतीति विश्वसृट् तस्मै विश्वसृजे तदनु-सृष्टेः पश्चात् विश्वंभुवनं बिभर्तीति बिभ्रत् तस्मै बिभ्रते पोषकाय धारकाय अथ = रक्षणानन्तरं विश्वस्य लोकस्य संहरतीति संहर्ता तस्मै संह-संहारकाय-प्रलयकत्रे इत्यर्थः, एवं प्रकारेण त्रेधात्रिप्रकारेण सृष्टिस्थितिप्रलयकर्तृत्वेनेत्यर्थः स्थितः वर्तमानः आत्मा-स्वरूपं यस्य स त्रेधास्थितात्मा तस्मै वेवास्थितात्मने = ब्रह्मविणुमहेश्वररूपायेत्यर्थः तुभ्यं परमात्मने नमः-प्रणतिः क्रियतेऽस्माभिर्देवैरिति शेषः । ___ समासः-विश्वं सृजतीति विश्वसृट, तस्मै । वा स्थितः आत्मा यस्य स त्रेधास्थितात्मा तस्मै त्रेधास्थितात्मने। हिन्द।-पहले त्रिभुवन को पैदा करनेवाले, पैदा करने के बाद विश्वपालन करनेवाले, ओर फिर संसार का विनाश करनेवाले इस प्रकार तीनरूप (ब्रह्मा विष्णु महेश्वर ) से वर्तमान तुमको "हम" प्रणाम करते हैं ॥१६॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy