SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ३०४ रघुवंशमहाकाव्ये (पा. ३।२।५५ ) इति निष्ठातकारस्य लत्वनिपातः । येऽसनस्य सर्जवृक्षस्य । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । अग्रविटपास्तानिव स्थितान् । इषुधिभूतानित्यर्थः । व्याघ्राणां चित्ररूपत्वादुपमाने 'फुल्ल'विशेषणम् । शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्व्याघ्रान् । शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषातूणीचकार । तूणं शरैः पूरितवानित्यर्थः ॥६३॥ अन्वयः-अभीः सः गुहाभ्यः अभिमुखोत्पतितान् वायुरुग्णान् फुल्लासनाप्रविटपान् इव "स्थितान्" शरपूरितवक्त्ररन्ध्रान् व्याघ्रान् शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार । व्याख्या-नास्ति भीः यस्य सः अभीः निर्भीकः सः = राजा गृहन्तीति गुहाः कन्दरास्ताभ्यः गुहाम्यः अभिमुखं-सम्मुखम् उत्पतिताः आगतास्तान् वायुना पवनेन रुग्णा: भग्नास्तान् वायुरुग्णान् । अस्यति रुजमिति सः असनः= बन्धूकपुष्पा सर्जकवृक्ष इत्यर्थः । असनस्य अग्रविटपा:-तरुशाखाः, इति असनानविटपाः। फुल्लाः विकसिताः ये असनानविटपाः इति फुल्लासनानविटपास्तान् फल्लासनानविटपान् इव-यथा स्थितान् । वक्त्राणां रन्ध्राणि वक्त्ररन्ध्राणि शरैः= बाणैः पूरितानि-भरितानि वक्त्ररन्ध्राणि येषां ते तान् शरपूरितवक्त्ररन्ध्रान् विशेषेण आसमन्तात् जिघ्रन्तीति व्याघ्रास्तान् व्याघ्रान्-शार्दूलान् शिक्ष्यते विद्यानया सा शिक्षा। शिक्षायाः शिक्षणस्य विशेषः-अभ्यासातिशयः इति शिक्षाविशेषस्तेन लघुः = क्षिप्रतरः चपलः हस्तः = करो यस्य सः शिक्षाविशेषलघुहस्तस्तस्य भावस्तत्ता तया शिक्षाविशेषलघुहस्ततया निमेषात्क्षणात् न तणी अतूणी, अतूणीं तूणीं कृतवान् तूणीचकार, व्याघ्राणां मुखानि शरैः पूरितवानित्यर्थः । व्याख्या-न भीर्यस्य सोऽभीः । अभिमुखमुत्पतिताः अभिमुखोत्पतितास्तान् अभिमुखोत्पतितान् । वायुना रुग्णास्तान् वायुरुग्णान् । असनस्य अग्रविटपाः, असनाग्रविटपाः फुल्लाश्च ते असनानविटपाः इति फुल्लासनानविटपास्तान् मुल्लासनाप्रविटपान् । शरैः पूरितानि वक्त्राणां रन्ध्राणि येषां ते तान् शरपूरितवक्त्ररन्ध्रान् । शिक्षायाः विशेषः शिक्षाविशेषस्तेन लघुः हस्तः यस्य सः शिक्षाविशेषलघुहस्तः, तस्य भावस्तत्ता तया शिक्षाविशेषलघुहस्ततया । हिन्दी-निर्भीक राजा दशरथ ने, बाण चलाने में सिद्धहस्त होने के कारण
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy