SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ २८० रघुवंशमहाकाव्ये निश्चित रूप से उसी प्रकार सुशोभित नहीं किया, ऐसा नहीं किन्तु सुशोभित ही किया, जैसे कि "शृंगार के लिये मस्तकपर लगाया हुआ" तिलक स्त्री को सुशोभित करता है । अर्थात् तिलक से जैसे स्त्री सुन्दर लगती है वैसे ही तिलक फल पर बैठे भौरों से वनस्थली सुन्दर लग रही थी॥४१॥ अमदयन्मधुगन्ध सनाथया किसलयाधरसंगतया मनः। कुसुमसंभृतया नवमल्लिका स्मिताचा तरुचारुविलासिनी ।।१२।। संजी०-अमदयदिति । तरुचारविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाख्या लता। 'सप्तला नवमल्लिका' इत्यमरः । मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया। गन्धप्रधानयेत्यर्थः । किसलयमेवाधररतत्र संगतया। प्रसृतरागयेत्यर्थः । कुसुमैः संभृतया संपादितया। कुसुमरूपयेत्यर्थः । स्मितरुचा हासकान्त्या मनः । पश्यतामिति शेषः । अमदयत् ॥४२॥ अन्वयः-तरुचारुविलासिनी नवमल्लिका मधुगन्धसनाथया किसलयाधरसंगतया कुसुमसंभृतया स्मितरुचा मनः श्रमदयत् । व्याख्या-विलासोस्ति यस्याः सा विलासिनी । चरति चित्ते यत् तत् चारु । चार्वी चासौ विलासिनी, चारुविलासिनी । तरो: वृक्षस्य (पुसश्च ) चारुविलासिनी सुन्दरस्त्री ( मनोहरा नायिका इत्यर्थः ) इति तरुचारुविलासिनी, नवा मल्लिका नवमल्लिका=( मल्लते = धारयति गन्धमिति मल्ली । मल्ली एव मल्लिका ) । सप्तला लता, नायिका च, मधुनः पुष्परसस्य, मद्यस्य च गन्धः-आमोदः इति मधुगन्धस्तेन सनाथा युक्ता तया मधुगन्धसनाथया सौरभप्रधानयेत्यर्थः किंचित् लसति इति किसलयम् । किसलयं-पल्लवमेव अधरः प्रोष्ठ इति किसलयाधरस्तत्र संगता-मिलिता= प्रसृतरागा, तया किसलयावरसंगतया कुसुमैः-पुष्पैः संभृतासंपादिता तया कुसुमसंभृतया पुष्परूपयेत्यर्थः स्मितस्य रुक क्रान्तिः इति स्मितरुक् तया स्मितरुचा मनः-चित्तं पश्यतां जनानामित्यर्थः अमदयत्-मदयाञ्चकार । मदयुक्तं चञ्चलं कृतवतीत्यर्थः । समासः-तरोः चारुविलासिनी इति तरुचारुविलासिनी। नवा चासौ मल्लिका । मधुनः गन्धः, मधुगन्धस्तेन सनाथा इति मधुगन्धसनाथा तया मधुगन्ध
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy