SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः २७२ सुकुमार एवं सुन्दर पंखड़ी व पराग वाले तथा अपने प्रेमी से दिये गये उस फूल को युवती स्त्रियों ने धुंघराले बालों में धारण किया ॥४०॥ अलिभिरब्जनबिन्दुमनोहरैः कुसुमपक्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म बनस्थली न तिलकस्तिलकः प्रमदामिव ।।४।। संजी०–अलिभिरिति । अजनबिन्दुमनोहरैः कजलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः । 'तिलकः क्षुरकः श्रीमान्' इत्यमरः । वनस्थलीम् । तिलको विशेषकः । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । प्रमदामिव । न शोभयति स्मेति न खलु । अपि त्वशोभयदेवेत्यर्थः । 'लट स्मे' (पा. ३।२।११८ ) इति 'स्म'शब्दयोगाद्भतार्थे ॥४१॥ __ अन्वय:--अञ्जनबिन्दुमनोहरैः कुसुमपंक्तिनिपातिभिः अलिभिः अंकित: तिलकः वनस्थलीम, तिलकः प्रमदाम इव न शोभयति स्म इति न खलु (अपि तु शोभयति स्म एव )। व्याख्या-विन्दन्ति, इति बिन्दवः। अनक्ति, इति अञ्जनम् । अञ्जनस्य= कजलस्य बिन्दवः कणाः, इति अजनबिन्दवः अजनबिन्दवः इव मनोहराः= सुन्दरास्तैः अजनविन्दुमनोहरैः । कुसुमानां-पुष्पाणां पंक्तयः श्रेणयः इति कुसुमपंक्तयस्तासु निपतितुं पतितुं शीलं येषां ते तैः कुसुमपङ्क्तिनिपातिभिः । अलन्ति भूषयन्तीति अलयस्तैः अलिभिः भ्रमरैः अंकितः=चिह्नितः सुशोभित इत्यर्थः । तिलतीति तिलकः तिलः इव इति वा तिलकः श्रीमान् एतन्नामक. वृक्ष इत्यर्थः । वनस्य अरण्यस्य स्थली-अकृत्रिमा भूः तां वनस्थलों तिलकः= विशेषकः प्रमदांरमरणीम् इव-यथा न शोभयति स्मन शोभयामास इति न खलु किन्तु शोभयामास एवेति । __समासः-अंजनस्य बिन्दव इति अंजनबिन्दवस्तद्वत् मनोहरास्तः अंजनबिन्दुमनोहरैः । कुसुमानां पंक्तयः कुसुमपंक्तयस्तासु निपतन्ति तच्छीलास्तैः कुसुमपंक्तिनिपातिभिः । वनस्य स्थली वनस्थली तां वनस्थलीम् । ___हिन्दी-कजल की बिन्दुओं के समान सुन्दर, तथा फूलों के समूह पर बैठे हुए भौरों से सुशोभित तिलक श्रीमान् नामक वृक्ष ने, वन की भूमि को,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy