SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः २३७ संभेदः मिलनम्, इति तोयव्यतिकरस्तेन भवति-उत्पद्यते इति तोयव्यतिकरभवस्तस्मिन् तोयव्यतिकरभवे तीयतेऽनेनेति तीर्थस्तस्मिन् तीर्थ क्षेत्रे गंगासरयूसंगमक्षेत्रे इति यावत् देहस्य = शरीरस्य त्यागः-पातनं तस्मात् देहत्यागात् मरणादित्यर्थः समाने अहनि सद्यः-तत्क्षणे एव न म्रियन्ते इति अमराः । अमराणां-देवानां गणना-सख्यानमिति अमरगणना, तस्यां लेख्यं लेखनमिति अमरगणनालेख्यम् देवत्वमित्यर्थः प्रासाद्य-प्राप्य, प्राकरणम् आकारः पूर्वः-प्रथमः इन्दुमतीरूपः प्राकारः प्राकृतिः, इति पूर्वाकारः, अतिशयेन अधिका इति अधिकतरा । पूर्वाकारात् अधिकतरा= विशिष्टा रुक-कान्तिर्यस्याः सा तया पूर्वाकाराधिकतररुचा काम्यते या सा कान्ता तया कान्तया-रमण्या संगतः=मिलितः सन् नन्दयतीति नन्दनं-नन्दनस्य इन्द्रवनस्य अभ्यन्तरारिण-अन्तर्वर्तीनि तेषु नन्दनाभ्यन्तरेषु लीलार्थम् क्रीड़ार्थमागाराणि भवनानि तेषु लीलागारेषु पुनः भूयः अरमत रेमे । समासः-जह्रोः कन्या, जह्नुकन्या। जह्न कन्या च सरयूश्चेति जलकन्यासरस्वौ तयोः जह्न कन्यासरय्वोः। तोयानां व्यतिकरः, तोयव्यतिकरस्तेन भवतीति तोयव्यतिकरभवस्तस्मिन् तोयव्यतिकरभवे । देहस्य त्यागः देहत्यागस्तस्मात् देहत्यागात्। अमराणां गणना, अमरगणना तस्यां लेख्यमिति अमरगणनालेख्यम् । पूर्वश्चासौ आकारः पूर्वाकारः, पूर्वाकारात् अधिकतरा रुक यस्याः सा तया पूर्वाकाराधिकतररुचा। लीलार्थम् आगाराणि तेषु लीलागारेषु नन्दनस्य अभ्यन्तराणि तेषु नन्दनाभ्यन्तरेषु । हिन्दी-और उस अज ने, गंगा सरजू के जलों के मिलने से बने तीर्थ ( दोनों के संगम ) में शरीर छोड़ने ( मरने) के कारण तुरन्त ही देवों में गणना ( देवत्व ) को प्राप्त कर लिया। तब देवता होकर, पहले शरीर से भी अधिक सुन्दर शरीरवाली भार्या से मिलकर नन्दन वन के विलास भवनों में विहार किया ॥९५।। इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये अजविलापो नाम अष्टमः सर्गः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy