SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ २३६ रघुवंशमहाकाव्ये ममासः-सम्यक् विनीतस्तं सम्यग्विनीतम् । रक्षणस्य विधिः रक्षणविधिस्तस्मिन् रक्षणविधौ । रोगेण उपसृष्टा तनुः रोगोपसृष्टतनुः, रोगोपसृष्टतनोः दुर्वसतिस्तां रोगोपसृष्टतनु दुर्वसतिम् । प्रायेण उपवेशने मतिर्यस्य स तथोक्तः । विध्यर्हमिति विधिवत् । ___ हिन्दी-इसके अनन्तर राजा अज, स्वभाव एवं संस्कार से विनीत, कवचधारी कुमार दशरथ को शास्त्रानुसार प्रजा के पालन करने का आदेश देकर, ( अर्थात् राजकार्य में नियुक्त करके ) रोग से व्याप्त अपने शरीर की दुरवस्था को त्यागने की इच्छा की ॥१४॥ तीर्थे तोयव्यतिकरभवे जह्न कन्यासरवो. देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासो लीलागारेश्वरमत पुनर्नन्दनाभ्यन्तरेषु ।।१५।। संजी०–तीर्थं इति । असावजो जलकन्यासरय्वोस्तोयानां जलानां व्यति. करेण संभेदेन भवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरगणनायां लेख्यं लेखनम् । 'तयोरेव कृत्यक्तखलाः ' (पा. ३।४।७० ) इति भावार्थे ण्यत्प्रत्ययः । प्रासाद्य प्राप्य । पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन् । नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत । 'यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि ।।' इति स्कान्दे । मन्दाक्रान्ताच्छन्दः । तल्लक्षणम्-'मन्दाक्रान्ता जलधिषडगम्भौं नतौ ताद्गुरू चेत्' इति ॥९५॥ अन्वयः- असौ जल कन्यासरखो तोयव्यतिकरभवे तीर्थे देहत्यागात् सद्यः "एव' अमरगणनालेख्यम् श्रासाद्य, पूर्वाकाराधिकतररुचा कान्तया संगतः सन् नन्दनाभ्यन्तरेषु लीलागारेषु पुनः अरमत । व्याख्या-असौ-अजः जह्नोः राजर्षेः कन्या-तनया इति जझुकन्या च सरयः चेति जह्लकन्यासरय्वौ, तयोः जह्लकन्यासरय्वोः तोयानां जलानां व्यतिकर:=
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy