SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ . २११ अष्टमः सर्गः मयि तस्य सुवृत्त ! वर्तते लघुसंदेशपदा सरस्वती। शृणु विश्रुतसत्त्वसार ! तां हृदि चैनामुपधातुमर्हसि ॥७॥ संजी०-मयोति । हे सुवृत्त सदाचार ! संदिश्यत इति संदेशः संदेष्टव्यार्थः । तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाक् मयि वर्तते। हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय ! तां सरस्वतीं शृणु । एनां वाचं हृद्युपवातुं धतुं चार्हसि ।।७७॥ __ अन्वयः-हे सुवृत्त ! लघुसन्देशपदा तस्य सरस्वती मयि वर्तते, हे श्रुतविश्रुतसत्वसार ! तां शृणु एनां हृदि उपधातुम् अर्हसि । व्याख्या-वर्तते स्म इति वृत्तं सु-शोभनं वृत्तं-स्वभावः-प्राचारः यस्य स सुवृत्तस्तत्संबुद्धौ हे सुवृत्त = हे शोभनाचार ! संदिश्यते इति सन्देशः, सन्देशस्य= सन्देष्टव्यार्थस्य पदानि-वाचकानि इति सन्देशपदानि लघूनि संक्षिप्तानि सन्देशपदानि यस्यां सा लघुसन्देशपदा, सरतीति सरः ज्ञानमस्याः अस्तीति सरस्वती वाक मयि-वसिष्ठशिष्ये वर्तते-अस्ति सतो भावः सत्त्वं सरतीति सारः सत्त्वस्य सारः सत्त्वसारः विश्रुतः प्रसिद्धः सत्त्वसारः धैर्यातिशयः यस्य स तत्संबुद्धौ हे विश्रुतसत्त्वसार ! तां सरस्वतीं शृणु आकर्णय एनां सरस्वती गुरुवाणीमित्यर्थः हृदि= चित्ते उपधातुं–धतुं च अहंसि-योग्योऽसि । समासः-सु वृत्तं यस्य स तत्संबुद्धौ हे सुवृत्त ! लघूनि सन्देशस्य पदानि यस्यां सा लघुसन्देशपदा । विश्रुतः सत्त्वस्य सारो यस्य स तत्संबुद्धौ हे विश्रुतसत्त्वसार !। हिन्दी-हे सच्चरित्र राजन् ! संक्षिप्तार्थक पदों के सन्देशयुक्त मुनि की वाणी मेरे पास है और हे प्रसिद्ध धैर्यशाली राजन् उस वाणी को सुनो और सुनकर अपने हृदय में धारण करो ॥७७॥ वक्ष्यमाणार्थानुगुणं मुनेः सर्वज्ञत्वं तावदाहपुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥७८॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy