SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये हिन्दी - इसके बाद यज्ञ के अनुष्ठान में लगे हुए गुरु वसिष्ठ जी ने भ्राश्रम बैठे-बैठे ही ( पत्नी वियोग ) के दुःख से अतीव पीडित अज को समाधि से जान लिया । 'अतः स्वयं न आकर अपने शिष्य द्वारा अग्रिम उपदेश से अज को ज्ञान दिया ॥७५॥ वसिष्ठशिष्य ग्रह २१८ श्रसमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् । न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितं पथ युतम् ||७६ ॥ संजी० – असमाप्तेति । यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्नपि । 'विदेः शतुर्वसुः' ( पा. ७।१।३६ ) इति वस्वादेश: । 'न लोक - ( पा. २।३।६९ ) इत्यादिना षष्ठीप्रतिषेघः । पथ - श्वयुतं स्वभावादुभ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम् । समाश्वासयितु' मत्यर्थः । स्वयं नोपस्थितो नागतः ॥ ७६ ॥ अन्वयः - यतः मुनिः श्रसमाप्तविधिः 'ततः ' तव तापकारणं विद्वान् अपि पथः च्युतं भवन्तं प्रकृतौ स्थापयितुं स्वयं न उपस्थितः । व्याख्या - यस्मादिति यतः = यस्मात् हेतोः मन्ता वेदशास्त्रार्थतत्त्वावगन्ता मुनिः- मंत्रद्रष्टा = वसिष्ठः विधानं विधिः न समाप्तः इति असमाप्तः - असम्पूर्णः विधिः= यागः यस्य स तथोक्तः । ततः = तस्मात् कारणात् तव = अजस्येत्यर्थः तापयतीति तापः । तापस्य दुःखस्य कारणं हेतुः तत् तापकारणम् । इन्दुमतीमरणरूपमित्यर्थः वेत्तीति विद्वान् = जानन्नपि पथन्ते श्रनेन, पतन्ति अनेन वा पन्थाः तस्मात् पथः=मार्गात् स्वभावादित्यर्थः च्युतं - भ्रष्टं भवन्तम् = प्रजं प्रकुरुते इति प्रकृतिस्तस्यां प्रकृतौ-स्वभावे स्थापयितुं - संस्थापयितुम् = श्राश्वासयितुमित्यर्थः स्वयम् = श्रात्मना नोपस्थितः–न प्राप्तः । भवन्तमाश्वासयितुमत्र नागतो गुरुरिति । समासः - न समाप्तः विधिः येन सोऽसमाप्तविधिः । तापस्य कारणमिति तत् तापकारणम् । हिन्दी - वसिष्ठ मुनि यज्ञ की पूर्णाहुति नहीं कर पाये हैं । इसलिए तुम्हारे स्त्रीविनाश रूप दुःख को जानते हुए भी स्वभाव से गिरे हुए आपको धीरता बनवाने के लिए स्वयं नहीं आए हैं ।। ७६ ।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy