SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ २०० रघुवंशमहाकाव्ये स्तीति पतत्री तं पतत्रिणं चक्रवाकं दयिता=प्रिया चक्रवाकी, पुनरेति इति हेतोः तौ चन्द्रचक्रवाको विरहस्य-वियोगस्य अन्तरम् अवधि क्षमेते, इति तौ विरहान्तरक्षमौ अत्यन्तम् अपुनरावृत्तये गता-मृता त्वं तु=इन्दुमती तु कथं न केन प्रकारेण न माम्-अजम् दहे:-सन्तापयेः, अपि तु सन्तापयेरेवेत्यर्थः । समासः-द्वन्द्वं चरतोति द्वन्द्वचरस्तं द्वन्द्वचरम् । विरहस्य अन्तरं क्षमेते यौ तौविरहान्तरक्षमौ । अत्यन्तं गता, अत्यन्तगता। हिन्दी-चन्द्रमा को रात्रि फिर (दिन के बाद ) मिल जाती है। और साथ-साथ रहनेवाले चकवे को प्यारी चकवी भी 'प्रातः' मिल जाती है। इसलिए वे दोनों ( चन्द्र चकवा ) विरह की अवधि को सहन कर लेते हैं। किन्तु सदा के लिए गई ( मरी ) तुम मुझे क्यों न सन्ताप दोगी। अर्थात् तुम्हारे वियोग में मैं क्यों न भस्म हो जाऊँ ॥५६॥ नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विहिप्यते कथं वद वामोरू ! चिताधिरोहणम् ।।५७॥ संजी-नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु । 'वामं स्यात्सून्दरे सव्ये' इति केशवः । 'संहितशफलक्षण-' इत्यादिनोङप्रत्ययः । तदिदमङ्गं चितायाः काष्ठसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥५७॥ अन्वयः-नवपल्लवसंस्तरे अपि अर्पितं मृदु ते यत् अङ्ग दूयेत, हे वामोरु ! तत् इदम् चिताधिरोहणं कथं विषहिप्यते वद । व्याख्या-पल्यते इति पल्लवः, पल चासौ लवः पल्लवः । नवाः नूतनाश्च ते पल्लवाः-किसलयानि, इति नवपल्लवास्तेषां संस्तरः आस्तरणं तस्मिन् नवपल्लवसंस्तरे अपिः-समुच्चये अर्पित संस्थापितं मृद्यते इति मृदु-कोमलं ते तव यत् अङ्गम् = शरीरं दूयेत-सन्तप्तं भवेत्, वमति वम्यते वा वामः, अर्यतेऽनेनेति ऊरुः । वामौ सुन्दरौ ऊरू जंघे यस्याः सा वामोरुस्तस्याः संवृद्धौ हे वामोरु ! तत्-मृदुत्वेन प्रसिद्धम् इदं पुरोवर्ति शरीरं चीयते इति 'चता, चितायाः-चितेः काष्ठसंचयस्येत्यर्थः अधिरोहणम्=प्रारोहणं कथं केन प्रकारेण विषहिष्यते सहिष्यते त्वया इति त्वं वद-कथय ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy