SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः - १६६ मुखम्=प्राननम् नितरां श्यति-तनूकरोति व्यापारान् सा निशा, निट ( इति पृषोदरादित्वात् शकारान्तोपि ) तस्यां निशि-रात्रौ सुप्तम्- निमीलितम्= संकुचितमित्यर्थः । षट पदानि येषां ते षट्पदाः, अभ्यन्तरे=मध्ये स्थिताः इति अभ्यन्तरस्थिताः, अभ्यन्तरस्थिताश्च ते षट्पदाः इति अभ्यन्तरषटपदाः ( शाकपार्थिवादित्वात् लोपः ) तेषां स्वनः शब्दः, इति अभ्यन्तरषटपदस्वनः, विरतः विश्रान्तः अभ्यन्तरषटपदस्वनः यत्र तत् विरताभ्यन्तरषटपदस्वनम् । भ्रमरशब्दरहितमित्यर्थः पङ्काजातं पङ्कजम् एकम् अद्वितीयञ्च तत् पङ्कजं--पद्ममिति एकपङ्कजम्, इव यथा माम् अजम् दुनोति = परितापयति । ममासः-उच्छवसिताः अलकाः यत्र तत् उच्छ्वसितालकम् । विश्रान्ता कथा यत्र तत् विश्रान्तकथम् । अभ्यन्तरे स्थिताः, अभ्यन्तरस्थिताः ते च ते षटपदाः इति अभ्यन्तरषट्पदास्तेषां स्वनः इति अभ्यन्तरषट्पदस्वनः, विरत: अभ्यन्तरषटपदस्वनः यत्र तत् विरताभ्यन्तरषटपदस्वनम् । एकञ्च तत् पङ्कजमिति एकपङ्कजम् । . हिन्दी-यह तुम्हारा मौनधारि मुख, जिसमें कि धुंघराले बाल हिल रहे हैं मुझे अतीव दुःख दे रहा है । 'और' यह उस अद्वितीय सुन्दर कमल के जैसा लग रहा है, जो कि रात्रि में कमल के भीतर बैठे भौरों के शब्द से शून्य है ॥५५॥ शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥५६॥ संजी-शशिनमिति । शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति । द्वन्द्वचरः त पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाको विरहान्तरक्षमौ विरहावधिसहौ । 'अन्तरमवकाशावधिपरिधानन्तद्धिभेदतादर्थ्य' इत्यमरः । अत्यन्तगता पुनरावृत्तिरहिता त्वं कथं न मां दहेर्न संतापयेः ? अपि तु दहेरेवेत्यर्थः ॥ ५६ ॥ अन्वयः-शर्वरी शशिनं पुनः एति, द्वन्द्वचरं पतत्रिणं दयिता पुनः एति, इति तौ विरहान्तरक्षमौ, अत्यन्तगता त्वं तु कथं न माम् दहेः । ___ व्याख्या- शृणाति-हिनस्ति चेष्टा इति शर्वरी-रात्रिः शशति-उत्प्लुत्य गच्छतीति शशः, शशः अस्ति अस्यासौ शशी तं शशिनं-चन्द्रं पुनः भूयः एति= प्राप्नोति । द्वौ द्वौ द्वन्द्वं चरति- द्वन्द्वीभूय चरतीति द्वन्द्वचरस्तं द्वन्द्वचरं पतत्रमस्या
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy