SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः १४७ हिन्दी-प्रशंसनीय निर्दोष वह अज इस प्रकार राजाओं के मस्तकों पर बायाँ पैर रखकर सर्वांगसुन्दरी पतिव्रता इन्दुमती को प्राप्त किया। और अज के रथ के घोड़ों की टापों से उठी धूली से रूखे बालों वाली वह इन्दुमती ही मतिमती युद्धस्थल की विजयलक्ष्मी हो गई अर्थात् इस लाभ के अतिरिक्त और विजयलक्ष्मी का लाभ क्या होगा ॥७०॥ प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू न हि सति कुलधुर्य सूर्यवंश्या गृहाथ ॥७१॥ संजी०--प्रथमेति । प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवत्तं प्रत्यागतं तमजमभिनन्द्य । तस्मिन्नज उपहितकुटुम्ब: सन् । 'सुतविन्यस्तपत्नीकः' इति याज्ञवल्क्यस्मरणादिति भावः । शान्तिमार्गे मोक्षमार्ग उत्सुकोऽभूत् । तथा हि--कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ॥७१।। अन्वयः--प्रथमपरिगतार्थः रघुः विजयिनं श्लाघ्यजायासमेतं संनिवृत्तम् तम् अभिनन्द्य, तदुपहितकुटुम्ब: सन् शान्तिमार्गोत्सुकः अभूत् । ___ व्याख्या--प्रथमं = पूर्वम् अजागमनादित्यर्थः एव परिगत: अवबुद्धः ज्ञातः अर्थः = विवाहविजयरूपः येन स परिगतार्थः रघु: दिलीपपुत्रः विजयोऽस्ति अस्यासौविजयी तं विजयिनं = विजेतारम् जायतेऽस्यां सा जाया, श्लाघयितुं योग्या श्लाघ्या, श्लाघ्या चासौ जाया चेति श्लाघ्यजाया, तया समेतः=युक्तः सहितस्तं श्लाघ्यजायासमेतम् संनिवृत्तं = प्रत्यागतम् तम् = अजम् अभिनन्द्य = प्रशस्य कुटुम्ब्यते=पाल्यते संबध्यते वा कुटुम्बः तस्मिन् = अजे उपहितः-विन्यस्तः कुटुम्ब:=परिवारो जायादिकं येन सः तदुहितकुटुम्बः सन् शान्ते =मोक्षस्य मार्ग:= पन्थाः तस्मिन् उत्सुक: उत्कण्ठितः अभूत् = आसीत् । आश्रमं गत्वा श्रवणमननादिपरो जात इत्यर्थः । धुरं वहतीति घुर्यः कुलस्य = वंशस्य धुर्य : = धुरंधरस्तस्मिन् कुलधुर्ये सति सूर्यस्य वंश: सूर्यवंशस्तस्मिन् भवाः सूर्यवंश्या: =सूर्यकुलोत्पन्नाः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy