SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ९३ पत्राणि येषां तानि सहस्रपत्राणि, सहस्रपत्राणि आभरणं येषान्ते सहस्रपत्राभरणाः । गवाम् अक्षीणीव अक्षीणि येषां ते गवाक्षाः । हिन्दी - ( अज को देखने के लिये ) अत्यन्त उत्सुक उन स्त्रियों के मदिरागन्ध से सुवासित तथा चंचल नेत्र रूपी भौंरे वाले मुखों से भरे वे झरोखे, ऐसे जान पड़ रहे थे, मानो कमलों से सजाए गए हों । अर्थात् चंचल नेत्ररूपी भौंरे वाले कमलरूपी मुखों से वे झरोखे कमलों से सजाए गये जैसे लग रहे थे ॥। ११ ॥ ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ||१२|| संजी०. o - ता इति । ता नार्यो रघोरपत्यं राघवमजम् । ' तस्यापत्यम्' (पा. ४।१।९२) इत्यण्प्रत्ययः । दृष्टिभिरापिबन्त्योऽतितृष्णया पश्यन्त्यो विषयान्तराण्यन्यान्विषयान्न जग्मुः । न विविदुरित्यर्थः । तथा हि- आसां नारीणां शेषेन्द्रियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकात्स्र्त्स्न्येन चक्षुः प्रविष्टेव । श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशवतेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ||१२|| अन्वयः - ताः नार्यः राघवं दृष्टिभिः आपिबन्त्यः विषयान्तराणि न जन्मः, तथाहि आसां शेषेन्द्रियवृत्तिः सर्वात्मना चक्षुः प्रविष्टा इव । व्याख्या - ताः = पूर्वोक्ताः नार्यः = स्त्रियः रघोरपत्यं पुमान् राघवस्तं राघवम् दृष्टिभिः = नेत्रैः आपिबन्त्यः = अतितृष्णया पश्यन्त्यः विपयान्तराणि= अन्यान् विषयान् न = नैव जग्मुः गताः, न जानन्ति स्मेत्यर्थः तथाहि = उक्तमुपपादयति, आसाम् = स्त्रीणाम् शेषाणि = अवशिष्टानि = चक्षर्व्यतिरिक्तानीत्यर्थः, च तानि इन्द्रियाणि श्रोत्रादीनि, शेषेन्द्रियाणि तेषां वृत्तिः = व्यापार:, इति शेषेन्द्रियवृत्तिः, सर्वः = सम्पूर्णश्चासौ आत्मा = स्वरूपम् तेन सर्वात्मना = पूर्णरूपेण चक्षुः- नेत्रं प्रविष्टा = गता इव = यथा नेत्रातिरिक्तानि श्रोत्रादीनीन्द्रियाणि स्वतंत्रतया स्वस्वविषयग्रहणे अशक्तानीति चक्षुरेव प्रविश्य कुतूहलात् स्वयमपि एनमुपलभन्ते किम्, अन्यथा स्वस्वविषयप्राप्तिः किं न स्यादिति । समासः - अन्ये विषयाः विषयान्तराणि, शेषाणि च तानीन्द्रियाणि शेषेन्द्रि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy