SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अन्वयः--अपर। दक्षिणं विलोचनम् अञ्जनेन संभाव्य तद्वञ्चितवामलोचना सती तथा एव शलाकां वहन्ती सती वातायनसन्निकर्ष ययौ । व्याख्या--अपरा = अन्या काचित् स्त्री दक्षिणम् = अपसव्यम् विलोचनं = नेत्रम् अज्जनेन = कज्जलेन संभाव्य = अलंकृत्य, स्त्रिया प्रथमं वामनेत्रे अञ्जनं कर्तव्यम्, अत्र तु त्वरया संभ्रमात् व्युत्क्रमणं जातमिति द्योतनार्थ दक्षिण मिति कथितम् । तेन = अञ्जनेन वञ्चितं = वजितं = रहितमित्यर्थः वाम सव्यं नेत्रं चक्षुः यस्याः सा तद्वञ्चितवामनेत्रा सती तथैव तेनैव प्रकारेण शलाकाम् अञ्जनतूलिकां वहन्ती =धारयन्ती सती वातायनस्य = गवाक्षस्य संनिकर्ष = समीपं ययौ=गता। समासः तेन वञ्चितं वामं नेत्रं यस्याः सा तद्वञ्चितवामनेत्रा, वातायनस्य सन्निकर्षस्तं वातायनसन्निकर्षम्, विशिष्टञ्च तत् लोचनमिति विलोचनम्, तत् । हिन्दी-नेत्र में अंजन करती हुई की चेष्टा का वर्णन। कोई और स्त्री दाहिने नेत्र में अञ्जन लगाकर और बांए नेत्र में बिना अञ्जन किये ही सलाई को हाथ में लिये हए झरोखे के पास चली गई। भाव यह है कि पहले बायें नेत्र में अञ्जन लगाना चाहिये, ऐसी वेद की आज्ञा है। किन्तु यहाँ जल्दी के मारे इस स्त्री ने घबराहट में उल्टा किया है वही दक्षिण-पद देने का भाव है ॥८॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥९॥ संजी०-जालेति । अन्या-स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां 'नीवीं वसनग्रन्थिम् । 'नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि' इति विश्वः । न बवन्ध । किन्तु नाभिप्रविष्टाभरणानां कङ्कगादीनां प्रभा यस्य तेन, प्रभव नाभेराभरणमभूदिति भावः, हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ।।९।। अन्वयः-अन्या जालान्तरप्रेषितदृष्टिः सती प्रस्थानभिन्नां नीवी न बबन्ध, किन्तु, नाभिप्रविष्टाभरणप्रभेण हस्तेन वास: अवलम्ब्य तस्थौ। व्याख्या-अन्या अपरा काचित् स्त्री जालान्तरे = वातायनमध्ये प्रेषिता: प्रेरिता दत्ता दृष्टि: लोचनं यया सा जालान्तरप्रेषितदृष्टि: सती प्रस्थानेन-गमनेन
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy