SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ८९ 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्मेदाभेदाभ्याम्' ( का. स. ) इति वामनः । तमाक्षिप्याकृष्य । उत्सष्ट लीलागतिस्त्यक्तमन्दगमना सती। आ गवाक्षाद् गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ॥७॥ अन्वयः- काचित् प्रसाधिकालम्बितम् द्रवरागम् एव अग्नपादम् आक्षिप्य उत्सृष्टलीलागतिः सती आगवाक्षात् पदवीम् अलक्तकाङ्कां ततान । व्याख्या-काचित वनिता= सुन्दरीत्यर्थः, प्रकर्षेण साध्नोति या सा प्रसाधिका तया प्रसाधि कया अलंका दास्या, आलम्बितं = रञ्जनार्थधृतम्, द्रवः= आर्द्रः रागः= रुंजनद्रव्यं यस्य स तं द्रवरागम् एव= हि अग्रश्चासौ पादस्तमग्रपादं = चरणाग्र भागम्, आक्षिप्य = आकृष्य उत्सृष्टा = परित्यक्ता लीलया मन्दा गतिः = गमनं यया सा उत्सष्ट लीलागतिः सती गवाक्षं = वातायनं मर्यादीकृत्येति आगवाक्षम् =गवाक्षपर्यन्तमित्यर्थः, पद्यते = गम्यते यया सा तां पदवीं = मार्गम् अलक्तकस्य = लाक्षारागस्य अङ्कः=चिह्नं यस्यां सा ताम् अलवतकाङ्कां ततान= विस्तारयामास । समास:-अग्रश्चासौ पादस्तमग्रपादम्, द्रवः रागः यस्य सः, तं द्रवरागम्, उत्सृष्टा लीलया गति: यया सा उत्सष्ट लीलागतिः, अलक्तकस्य अङ्कः यस्यां सा ताम् अलक्तकाङ्काम्, गवाक्षं मर्यादीकृत्येति आगवाक्षम्, तस्मात् आगवाक्षात् । हिन्दी--पैर में महावर लगवाती हुई स्त्री की चेष्टा । एक दूसरी स्त्री श्रृंगार करनेवाली दासी से पकड़ा हुआ, तथा गीले महावर लगे पैर को छुड़ाकर अपनी स्वाभाविक मन्दगति को त्यागकर ऐसी दौड़ी कि खिड़की तक लाल पैरों की पंक्ति बनती चली गई ।।७।। विलोचनं दक्षिण मञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा। तथैव वातायनसंनिकर्ष ययौ शलाकामपरा वहन्ती ॥८॥ संजी०-विलोचन मिति । अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य । संभ्रमादिति भावः। तञ्चितं तेनांजनेन वामनेत्रं यस्याः सा सती तथैव शलाकामजनतूलिकां वहन्ती सती वातायनसंनिकर्ष गवाक्षसमीपं ययौ । 'दक्षिण' ग्रहणं संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम् 'सव्यं हि पूर्वं मनुष्या अञ्जते' इति श्रुतेः ॥८॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy