SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः २५ तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय। समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानस राजहंसीम् ॥ २६ ॥ संजी०--तामिति । सैव नान्या, चितज्ञत्वादिति भावः । वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराज निनाय । नयतिर्द्विकर्मकः । कथमिव ? समीरणोत्था वातोत्पन्ना तरङ्गलेखोर्मिपङिक्तानसे सरसि या राजहंसी तां पद्मान्तरमिव ॥ २६ ।।। ___अन्वयः-सा एव वेत्रग्रहणे, नियुक्ता, ताम् राजसुताम् समीरणोत्था तरंगलेखा मानसराजहंसीम् पद्मान्तरम् इव निनाय । व्याख्या---सा = पूर्वोक्ता एव = चित्तज्ञत्वात् नान्येत्यर्थः, वेत्रस्य ग्रहणम् = स्वीकारस्तस्मिन् वेत्रग्रहणे नियुक्ता = नियोजिता द्वारपालिका, सुनन्दा ताम् = पूर्वोक्ताम् राज्ञः = नृपस्य सुता = पुत्री इति राजसुता = इन्दुमती ताम् राजसुताम्, समीरणेन = वायुना उत्था उत्पन्ना इति समीरणोत्था, तरंगाणाम् = ऊर्मीणाम् लेखा = पंक्तिरिति तरंगलेखा मानसे मानससरोवरे या राजहंसी सिता हंसी, ताम् अन्यत् पद्मिति पद्मान्तरम् = कमलान्तरम्, तद् इव यथा निनाय निन्ये । समासः-वेत्रस्य ग्रहणमिति वेत्रग्रहणं तस्मिन् वेत्रग्रहणे । राज्ञः सुता, इति राजसुता ताम्, राजसुताम् समीरेण उत्था इति समीरणोत्था, तरंगाणाम् लेखा तरंगलेखा, हंसीनां राज्ञी इति राजहंसी मानसे राजहंसी ताम् मानसराजहंसीम्, अन्यत् पद्मिति पद्मान्तरम् तत् । हिन्दी--जिस प्रकार वायु से उठी तरंगों की परम्परा मानससरोवर की राजहंसिनी को एक कमल से दूसरे कमल के पास पहुँचा देती है, उसी प्रकार उसी द्वारपालिका सुनन्दा ने राजपुत्री इन्दुमती को भी दूसरे राजा के पास पहुँचा दिया। अर्थात् मगधेश्वर को छोड़कर दूसरे राजा के पास ले जाकर खड़ी कर दी ॥ २६ ॥ जगाद चैनामयमङ्गनाथः सुरङ्गनाप्राथितयौवनश्रीः। विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते॥२७॥ संजी०–जगादेति । एनामिन्दुभती जगाद । किमिति, अयमङ्गनाथोऽङ्गदेशाधीश्वरः सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः, पुरा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy