SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः रन्ध्राणि छिद्राणीति अंगुलि रन्ध्राणि, वज्राणाम् =मुकुटजड़ितहीरकादीनाम् अंशवः= किरणाः गर्भ-मध्ये येषां तानि, इति वज्रांशुगर्भाणि, वज्रांशुगर्भाणि अंगुलिरन्ध्राणि यस्य स तम् तथोक्तम्, एकम् =द्वयोरन्यतरम्, करम् हस्तम् व्यापारयाभास प्रयोजयामास । समासः-भागमनतिक्रम्य यथाभागम्, स्वस्य संनिवेशः स्वसंनिवेशस्तस्मात् स्वसंनिवेशात्, अंगुलीनाम् रन्ध्राणि इति अंगुलिरन्ध्राणि, वज्राणाम् अंशवः गर्भे येषां तानि वज्रांशुगर्भाणि, वज्रांशुगर्भाणि अंगुलिरन्ध्राणि यस्य स तम् वज्रांशुगर्भाङगुलिरन्ध्रम्। हिन्दी-कोई दूसरा राजा, ठीक अपनी जगह रखे रहने पर भी मानो अपने स्थान से सरक गया हो, ऐसे मुकुट पर एक हाथ को बार-बार फेरने लगा। जिस हाथ की अंगुलियों के बीच का भाग रत्नों की किरणों से चमक उठता था। ___ इस मुकुट की तरह मेरे सिर आँखों पर चढ़ी हुई तुमको मैं भार स्वरूप नहीं मानगा। अर्थात् सदा सिर आँखों पर तुमको रखूगा, यह राजा का अभिप्राय था। किन्तु इन्दुमती ने समझा कि यह तो मस्तक पर हाथ रखने वाला कुलक्षणी है ।। १९ ॥ ततो नृपाणां श्रुतवृत्तवंशा पुंदत्प्रगल्भा प्रतिहाररक्षी। प्राक्सन्निकर्ष मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥२०॥ संजी०-तत इति । ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा श्रुतनृपवृत्तवंशेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका। कर्मण्यण्प्रत्ययः। 'टिड्ढाणद्वयसच्दघ्नन्मात्रच्तयप्ठकठकञ्क्वरपः' इत्यनेन ङीप् । प्राक्प्रथमं कुमारीमिन्दुमतीम् । मगधेश्वरस्य सन्निकर्ष समीपं नीत्वा पुंवत्पुंसा तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । अवदत् ॥ २० ॥ अन्वयः-ततः नृपाणाम् श्रुतवृत्तवंशा पुंवत्प्रगल्भा, सुनन्दा प्रतिहाररक्षी, प्राक् कुमारीम् मगधेश्वरस्य संनिकर्षम् नीत्वा अवदत् । व्याख्या-ततः = अनन्तरम्, नृपाणाम् = राज्ञाम्, वृत्तानि = चरितानि, वंशाः = कुलानीति, वृत्तवंशाः, श्रुताः = आकर्णिताः वृत्तवंशा यया सा श्रुतवत्तवंशा, पंसा तुल्यमिति पुंवत् पुरुषवत् प्रगल्भा = वाग्मिनी, सुनन्दा = एतन्नाम्री प्रतिहारम्
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy