SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ १८ रघुवंशमहाकाव्ये रेखाध्वजः = लेखापताका, भाग्यसूचकपाणिरेखारूपध्वज इत्यर्थः, लाञ्छनम्-चिह्न यस्य स तेन रेखाध्वजलाञ्छनेन करेण =पाणिना, अंगुलिषु भवन्ति, अंगलीयानि, रत्नानाम् हीरकादिमणीनाम् अंगुलीयानि = मुद्रिकाः, तेषां प्रभा = कान्तिः तया, रत्नांगुलीयप्रभया, अनुविद्धान् = व्याप्तान् , अक्षान् = पाशान् लीलया सहितमिति, सलीलम् = सक्रीडम, उदीरयामास = उच्चिक्षेप। समास:- कुशेशयमिव आतानं तलं यस्य स तेन तथोक्तेन, रेखारूपो ध्वजः लाञ्छनं यस्य स तेन रेखाध्वजलाञ्छनेन, अंगुलीषु भवानि अंगुलीयानि, रत्नानाम् अंगुलीयानीति रत्नांगुलीयानि तेषां प्रभा तया रत्नांगुलीयप्रभया, लीलया सहितमिति सलीलम् । हिन्दी---कोई दूसरा राजा, जिसकी हथेली कमल के समान लाल थी, एवं जिस हथेली पर रेखारूपी ध्वजा का चिह्न बना था, ऐसे अपने हाथ में उन पाशों को उछाल रहा था, जिस पर रत्नजटित अंगूठी की कान्ति झलक रही थी। मैं तुम्हारे साथ विवाह हो जाने पर सदा इस प्रकार पासा खेला करूँगा यह राजा का अभिप्राय था, किन्तु जुआ खेलने में चतुर यह कापुरुष है यह इन्दुमती का अभिप्राय था ॥ १८॥ कश्चिद्यथाभागमवस्थितेऽपि स्व सन्निवेशाद्वयतिलविनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥१९॥ संजी-कश्चिदिति । कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसन्निदेशाद्वयतिलङिघनीव स्वस्थानाच्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङगुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास । किरीटवन्मम शिरसि स्थितामपि त्वां भार न मन्य इति नृपाभिप्रायः । शिरसि न्यस्तहस्तोऽयमपलक्षण इतीन्दुमत्यभिप्रायः ॥ १९ ॥ ___ अन्वयः-कश्चित यथाभागम् अवस्थिते अपि स्वसंनिवेशात व्यतिलंघनि इव किरीटे वनांशुगर्भा गुलिरन्ध्रम् एकम् करम् व्यापारयामास । व्याखा-कश्चित्-राजा, भागम् स्थानमनतिक्रम्येति, यथाभागम् यथास्थानम्,अवस्थिते वर्तमानेऽपि, स्वस्य=निजस्य, संनिवेशः स्थानम्,तस्मात् स्वसंनिवेशात् व्यतिलंधिनि = चलिते, इवयथा, किरीटे = मुकुटे, अंगुलीनाम् = करशाखानाम्,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy