SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये तस्य उद्भेदेन शून्याः इति स्वकिरणपरिवेषोभेदशून्याः। तव प्रबोधाय प्रयुक्ता, तां त्वत्प्रबोधयुक्ताम् । मञ्जर्वाक यस्यासौ मञ्जवाक् । अभि०-रात्रौ शयने उपहारार्थमानीतः पुष्पहारः ते मुखनिश्वासेनेदानीम् म्लानः संजातः । तस्य च गुम्फनमपि विरलं जातं, दीपाश्च हतप्रभाः संजाताः, पञ्जरे स्थितोऽय कीरोऽपि तव प्रबोधायोदीरितं नः स्तुतिपाठमनुवदति । इत्थं प्रभातचिह्नानि वर्तन्ते अतस्त्वयापि प्रबोद्धव्यमिति । हिन्दी-रात्रिकी सजावटके लिए भेट में आए हुए पुष्प मुरझाकर गिर रहे हैं और दिन का प्रकाश हो जानेके कारण, दीपक भी अपने प्रकाश पुञ्ज से हीन हो गये हैं। अर्थात् फीके पड़ गये हैं और पिञ्जरे में बैठा हुआ मधुर बोलने वाला यह तुम्हारा सुग्गा भी तुम्हें जगाने के लिए हम लोगोंसे प्रयोग किये गये गीतोंको दुहरा रहा है । अतः तुम भी अब उठ जाओ ॥ ७४ ।। इति विरचितवाग्भिवन्दिपुत्रैः कुमारः __सपदि 'विगतनिद्रस्तल्पमुज्झाञ्चकार । मदपटुनिनदद्भिर्बोधितो राजहंसः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ ५॥ सञ्जीविनी-इतीत्थं विरचितवाग्भिर्वन्दिपुत्रैवैतालिकैः पुत्रग्रहणं समानवयस्कत्वद्योतनार्थम् । सपदि विगतनिद्रः कुमारः तल्पं शय्याम् 'तल्पं शय्यादृदारेषु' इत्यमरः। उज्झाञ्चकार विससर्ज । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । कथमिव मदेन पटु मधुरं निनदद्भिः राजहंसै बर्बोधितः सुप्रतीकाख्यः सुरगज ईशानदिग्गजः गङ्गाया इदं गाङ्गं सैकतं पुलिनभिव । 'तोयोत्थितं तत्पुलिनं सैकत सिकतामयम्' इत्यमरः । 'सिकताशर्कराभ्यां च' इत्यण्प्रत्ययः। सुप्रतीकग्रहणं प्रायशः कैलासबासिनस्तस्य नित्य गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥ ७५ ॥ ___ अन्वयः-इति, विरचितवाग्भिः वन्दिपुत्रैः, सपदि, विगतनिद्रः, कुमारः, तल्पम् , उज्झांचकार, 'कथमिव' मदपटु, निनदद्भिः, राजहंसैः, बोधितः, सुप्रतीकः सुरगजः, गांङ्ग, सैकतम् , इव ।। वाच्य-विगतनिद्रेण कुमारेण तल्पमुज्झाञ्चक्रे, बोधितेन सुप्रतीकेन सुरगजेन गाङ्गं सैकतमिव ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy