SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः भवति विरलभक्ति नपुष्पोपहारः __स्वकिरणपरिवेषोझैदशून्याः प्रदीपाः। अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता. मनुवदति शुकस्ते मजुवाक्पञ्जरस्थः ॥ ७४॥ सञ्जीविनी-म्लानः पुष्पोपहारः पुष्पपूजा म्लानन्वादेष विरलभक्तिर्विरलरचनो भवति । प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति निस्तेजस्का भवन्तीत्यर्थः। अपि चायं मञ्जवाङ् मधुरवचनः पञ्जरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्तं प्रयुक्तामुच्चारितां नोऽस्माकं गिरं वाणीमनुवदति अनुकृत्य वदतीत्यर्थः । इत्थं प्रभातलिङ्गानि वर्तन्ते अतः प्रबोद्धव्यमिति भावः। __ अन्वयः-म्लानपुष्पोहारः, विरलभक्तिः, भवति, प्रदीपाः स्वकिरणपरिवे. षोद्मेदशून्याः, भवन्ति, अपि च अयं, मञ्जुवाक् , पञ्जरस्थः, ते शुकः, वत्प्रबोधप्रयुक्तां, नः गिरम् , अनुवदति । वाच्य०-म्लानपुष्पोपहारेण विरलभक्तिना भूयते । प्रदीपैः स्वकिरणपरिवेषोमेदशून्यैः भूयते । अपि चानेन मञ्जुवाचा पञ्जरस्थेन ते शुकेन त्वत्प्रबोधप्रयुक्ता नः गीरनूद्यते । व्याख्या-ग्लान: निःश्वासेन म्लानतां गतः, यः पुष्पोपहारः कुसुमोपायनमिति म्लानपुष्पोपहारः। विरला=शिथिला, भक्तिः रचना यस्य सः विरलभक्तिः । भवति जायते । जात इत्यर्थः । प्रदीपा:-दीपकाः। स्वस्य किरणाः स्वकिरणास्तेषां स्वकिरणानां निजरश्मीनां, परिवेषः मण्डलं तस्य उमेदः = स्फुरणमिति स्वकिरणपरिवेषोद्भेदः तेन शून्याः रहिता इति स्वकिरणपरिवेषोद्रेदशन्याः भवन्ति । नष्टप्रभाः जाता इत्यर्थः। अपि च अयम् एषः, मच: - मनोहरा वाक्-वाणी यस्य स मञ्जुवाक् । पञ्जरे तिष्ठतीति पञ्जरस्थः पञ्जरमध्यवर्ती । ते तव । शुकः कीरः। तव अजस्य, प्रयोषः-उत्थानम्, तत्र प्रयुक्ता = कथिता इति त्वत्प्रबोधप्रयुक्ता, ताम् । नः = अस्माकं गिरं = वाणी वचः। अनुवदति-अनुब्रवीति अस्मदुतस्तुतिपाठं तथैव कथयति इत्यर्थः। समा०-पुष्पाणामुपहारः पुष्पोपहारः, म्लानश्वासौ पुष्पोपहारः इति म्लानपुष्पोपहारः। विरला भक्तिर्यस्य स विरलभक्तिः। स्वस्य किरणानां परिवेषः,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy