SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये वाच्य०-जलावगाहक्षणमात्रशान्तया मददुर्दिनश्रिया पुनः दिदीपे । व्याख्या-तस्य पूर्वोक्तस्य । एकः मुख्यश्चासौ नागः गजः इति एकनागः, तस्य एकनागस्य । कपोलौ गण्डस्थलौ एव भित्तीप्रदेशौ इति कपोलभित्ती, तयोः कपोलभित्त्योः। जले-सलिले, अवगाहा मजनम् जलावगाहः, क्षणः= मुहूतम् एव क्षणमात्रम् , क्षणमात्रं शान्ता-निवृत्ता इति क्षणमात्रशान्ता, जलावगाहेन क्षणमात्रशान्ता इति जलावगाहक्षणमात्रशान्ता। मदस्य-दानस्य, दुदिनम्-वर्षणम् इति मददुर्दिनम् , मददुर्दिनस्य श्री: शोभा इति मददुर्दिनश्रीः । वने विपिने भवा वन्याः, वन्या इतरे अन्ये येषां ते वन्येतराः, अनेकाभ्याम् मुखशुण्डाभ्याम् पिबन्ति पानं कुर्वन्ति इति अनेकपाः गजाः इत्यर्थः, वन्येतराश्च ते अनेकपाः इति वन्येतरानेकपः, वन्येतरानेकपानाम् दर्शनम् अवलोकनम् इति वन्येतरानेकपदर्शनम् , तेन वन्येतरानेकपदर्शनेन पुनः भूयः दिदीपे-ववृधे । समा०-एकश्चासौ नागः इति एकनागः, तस्य एकनागस्य । कपोलो एव मित्ती इति कपोलभित्ती, तयोः कपोलभित्त्योः। जले अवगाहः जलावगाहः, क्षण एवं क्षणमात्रम् , क्षणमात्रं शान्ता इति क्षणमात्रशान्ता, जलावगाहेन क्षणमात्रशान्ता इति जलावगाहक्षणमात्रशान्ता । दुष्टं दिनम् दुर्दिनम् , मदस्य दुर्दिनम् मददुर्दिनम् , मददुर्दिनस्य श्रीः इति मददुर्दिनश्रीः । वने भवाः वन्याः, वन्याः इतरे येषां ते वन्येतरा:, अनेकाभ्यां पिबन्ति इति अनेकपाः, वन्येतराश्च ते अनेकाः इति वन्येतयनेकपाः, वन्येतरानेकपानाम् दर्शनम् इति वन्येतरानेकपदर्शनम् , तेन वन्येतरानेकपदर्शनेन ।। अभि०-यन्मदजलवर्षणम् नर्मदा सलिलमजनेन तस्य गजस्य मुहूर्तमात्र शान्तमभूत् तदेवाजसेनागजावलोकनेन पुनरुत्पन्नं बभूव ।। हिन्दी-उस हाथी के गण्डस्थलों से जो मद टपक रहा था वह नर्मदा के जल में डुबकी लगाने से एक क्षण के लिये बन्द हो गया था, किन्तु अज की सेना के हाथियों को देखते ही पुनः बरसने लगा ॥ ४७ ॥ सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधारणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः॥४८॥ सञ्जीविनी-सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत्कटुः सुरभिः प्रवाहः प्रसारो यस्य तम् । कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः' इति यादवः। असह्य
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy