SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये व्याख्या-अथ-सिंहासनारोहणानन्तरम् । लब्धस्य प्राप्तस्य यत् प्रशमनम् स्थिरीकरणम्, तेन स्वस्थं समाहित चित्तम्, एनम् राजानम्-रघुम् । पङ्कजानि कमलान्येव लक्षणानि चिह्नानि यस्यास्तादृशी कमलचिह्नवतीत्यर्थः । शरद शरत्कालः । द्वितीया अपरा। पार्थिवस्य राज्ञः या श्री: शोभा, सेव सनु. पस्यिताप्राप्ता। समा०-लब्धस्य प्रशमनं लब्धप्रशमनम्, लब्धप्रशमनेन स्वस्थः लब्धप्रशमनस्वस्थः, तं लब्धप्रशमनस्वस्थम् । पृथिव्या ईश्वरः पार्थिवः, पार्थिवस्य श्री: पार्थिवश्रीः। पङ्कजं लक्षणं यस्या: सा, अथवा पङ्कजस्य लक्षणं यस्याः सा प जलक्षणा। अभि०-स रघुर्यदा राज्यं प्राप्तवान तदेव सर्वत्र शान्ति विधाय स्वस्थोऽभवत् । एवं च शरदृतुः विकसित कपलव्याजेन अपरा राजलक्ष्मीरिव तं सिषेवे । हिन्दी-राज्यासन पाने के उपरान्त रघु ने उपलब्ध राज्य में शान्ति स्थापित की। तभी शरद् ऋतु का प्रागमन इस प्रकार हुमा मानो कमलधारिणी साक्षात् लक्ष्मी ही आ गई हो ॥ १४ ॥ निष्टलघुभिर्मेधैर्मुक्तवर्मा सुदुःसहः । प्रतापस्तस्य भानोश्च युगपद्वथानशे दिशः ॥ १५ ॥ सञ्जीविनी-नि:शेष वृष्टा निवृष्टाः। कर्तरि क्तः। अत एव लघवः । तघेर्मुक्तवर्मा त्यक्तमार्गः । अत एव सुदुःसहः । तस्य रघोर्भानोश्च प्रतापः पौरुषमातपश्च । 'प्रतापी पौरुषातपौ' इति यादवः । युगपदेककालं दिशो व्यानशे व्याप ॥ १५ ॥ अन्वयः--निवृष्ट लघुभिः, मेघेः, मुक्तवर्मा, प्रत एव, तुःसहः, तस्य, भानोः, च, प्रतापः, युगपत्, दिशः, व्यानशे । वाच्य०-- मुक्तवर्मना सुदुःसहेन प्रतापेन दिशः व्यान शिरे । व्याख्या--निःशेषं वृष्टाः = मुक्त जला इति निर्वृष्टाः, अत एव लघवः तः तथोक्तः, मेधैः = घनः। मुक्तं परित्यक्तं, वर्म = मार्गः यस्य तादृशः । अत एव सुष्टु दुःसहातिदुःसहः सोढुमशक्य इत्यर्थः । तस्य-राज्ञः, भानो:- सूर्यस्य, चतथा । प्रतापः -- पुरुषशक्तिः प्रतापश्च ! युगपद् =एककालम्, दिशः = काष्ठाः, व्यानशेव्याप ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy