SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ३७ 'हरिर्वाताकं चन्द्रेन्द्रयमोपेन्द्रमरोचिषु' इति विश्वः । एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गंभीरेण स्वरेण ध्वनिनैव निवर्तयन्निवावोचत् ॥ ४३ ॥ , अन्वयः - - रघुः तम् अनिमेषवृत्तिभिः, अक्ष्णां शतैः, हरिभिः, वाजिभिः, च, हरिं, विदित्वा, एवं, गगनस्पृशा, धीरेण, स्वरेण निवर्त्तयन्, इव, अवोचत् । वाच्य० -- रघुणा निवर्त्तयता इव अवोचि । व्याख्या - रघुः = दिलीपात्मजः । तम् = अश्वहर्त्तारम् = अश्व चौर मित्यर्थः निमेषस्य वृत्तिः, निमेषवृत्तिः, अविद्यमानः निमेषवृत्तिर्येषां तानि अनिमेषवृत्तीनि तै: अनिमेषवृत्तिभिः = निमेषव्यापारशून्यैः । श्रक्ष्णां = नेत्राणां शतैः = शतसंख्याकैः, हरिभिः = हरिद्वर्णैः । हरिम् = इन्द्रं, विदित्वा = शाखा | एनम् = इन्द्रं, गगनम् = आकाशं, स्पृशति = व्याप्नोति इति गगनस्पृक्, तेन् गगनस्पृशा । धीरेण = नम्भीरेण स्वरेण = ध्वनिना । निवर्त्तयन् = परावर्तयन् श्व = यथा अवोचत् = उक्तवान् । समा० - निमेषस्य वृत्तिः निमेषवृत्तिः, न, त्रिद्यते निमेषवृत्तिः येषां तानि अनिमेषवृत्तोनि, तैः अनिमेषवृत्तिभिः । गगनं स्पृशतीति गगनस्पृक् तेन गगनस्पृशा । " अभि० - रघुः सहस्राक्षतया घोटकानां हरिद्वर्णतया निमेषव्यापारशून्यदृष्टिमत्त्वेन चाश्वचौरभिन्द्रं ज्ञात्वा गम्भीर स्वरेण तं निवर्तयन्निव जगाद । हिन्दी० - रघु ने उस घोड़े को चुराकर ले जानेवाले को पलकें न गिराने वाली हजार आँखों से और हरे रंग के घोड़े से इन्द्र करके पहचान लिया । और आकाशव्यापी गम्मीर स्वर से इन्द्र को मानो लौटाते हुए, ललकारा ॥ ४३ ॥ मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र ! सदा निगद्यसे । अजस्त्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ ४४ ॥ संजीविनी -- हे देवेन्द्र ! मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथमः सदा निगद्यसे कथ्यसे । तथाऽप्यजत्रदीक्षायां नित्यदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय ऋतुविघाताय । क्रियां विहन्तुमित्यर्थः । 'तुमर्थाश्च भाववचनात्' इति चतुर्थी । कथं प्रवर्तसे ॥ ४४ ॥ अन्वयः- - "हे" देवेन्द्र ! मनीषिभिः, त्वम् एव, मखांशभाजां प्रथमः, सदा, निगद्यसे, "तथादि” अजस्त्रदीक्षाप्रयतस्य, मद्गुरोः, क्रियाविघाताय, कथं प्रवर्त्तसे । वाच्य० – “हे” देवेन्द्र ! मनीषिणस्त्वामेव प्रथमं निगदन्ति, त्वया कथं प्रवर्त्यते । व्याख्या -- देवानामिन्द्र इति बेवेन्द्रस्तत्संबुद्धौ "हे" देवेन्द्र ! मनीषिभिः = विद्वद्भिः । स्वम् ( = इन्द्र एव । मखस्य = यशस्य, अंशाः = भागास्तान् भजन्ति भुञ्जते इति मखांशभाजस्तेषां मखांशभाजां देवानां । प्रथमः = आदिः । सदा = सवंदा, निगद्यसे = कथ्यसे । "तथापि " अजस्रं = निरन्तरं दीक्षा इति अजस्रदीक्षा तस्यां प्रयतः = संलग्नस्तस्य अजस्त्रदीक्षाप्रयतस्य मम = रघोः, गुरुः = पिता तस्य मद्गुरोः । क्रियायाः = अनुष्ठानस्य, विवातः = नाशस्तस्मै क्रियाविघाताय । कथं = कस्मात् प्रवर्त्त से = प्रवृत्तो भवसि । "
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy