SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाम्ये तदङ्गनिस्यन्दः, तदङ्गानिस्यन्द एव जलं तदङ्गनिस्यन्दजलम् , तेन तदअनिस्यन्दजलेन । इन्द्रियाप्यतीता अतीन्द्रियाः, तेषु अतीन्द्रियेषु । उपपन्नं दर्शनं यस्य सः उपपन्नदर्शनः । अभि०-दिलीपपुत्रो रथुः नन्दिनोमूत्रेण लोचने संशोध्य दिव्यदृष्टिर्जातः । हिन्दी-सज्जनों के सम्मानित रघु ने तुरन्त नन्दिनी के मूत्र से आँखें धो हाली, इससे उन्हें इन्द्रियों से न दीखने वाले पदार्थों को भी देखने की शक्ति मिल गई ।। ४१ ॥ स पूर्वतः पर्वतपक्षशातनं ददर्दा देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्ध चापलं हन्तवं रथरश्मिसंयतम् ॥ ४२ ॥ संजीविनी-नरदेवयंभवः म रवः पुनः पुन: सूतेन निषिद्धचापलं निवारितौद्धत्वं रथस्य रश्मिभिः प्रग्रहैः । 'किरणाग्रहौ र शमी पर । संगतं बद्धमश्वं हरन्तं पर्वतपक्षागां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ॥ ४२ ॥ । अन्वयः-- नरदेजसम्मवः, सः, पुनः पुनः, सूतनिषिद्धचापलं, स्थरश्मि. संयतम्, अश्वं, हरन्तं, पर्वतपक्षशातनं देवं पूर्वतः, ददर्श । वाच्य०-नरदेवसम्भवेन तेन अश्वं हरन् पर्वतपक्षशातनो देवः पूर्वतो ददृशे । ध्याख्या-नराणां - अनुष्याणां, देव:-ईश्वरः, इति नरदेवस्तस्मात् सम्भवः = उत्पत्तिः यस्य स नर देवसम्भवः। सः धुः। पुनः पुनः = भूयो भूयः, सूतेन सारथिना, निषिद्धं - निवारितं, चापल = चाञ्चल्यं यस्य सः, तं सूतनिषिद्धचापलम् । रथस्य = स्यन्दनस्य, रश्मयःप्रग्रहाः, तैः संयतः = बद्धस्तं तथोक्तम् । अश्व =तुरगं, हरन्तं = चोरयन्तं, पर्वतानां - गिरीया, पक्षा: गरुतः इति पर्वतपक्षास्तेषां शातनः- छेदकस्तं पर्वतपक्षशातनं । देवम् = इन्द्र, पूर्वतः = पूर्वस्यां दिशि ददर्श=अपश्यत् । समा०–नरदेवात् संभवो यस्य सः नरदेवसम्भवः। चपलस्य भावः चापलम् , सूतेन निषद्धं चापलं यस्य सः सूतनिषिद्धचापलः, तं सूतनिषिद्धचापलम् । रथस्य रश्मयः रपरश्मयः,रथरश्मिमिः संयतः रथर श्मिसंयतः, तं रथरश्मिसंयतम् । पर्वताना पक्षाः पर्वतपक्षाः, पर्वतपक्षाणां शातनः पर्वतपक्षशातनः, तं पर्वतपक्षशातनम् । ___ अमि०-प्राप्तदिव्यदृष्टिः, दिलीपस्नुः रथरश्मिबद्धमश्वं हरन्तमिन्द्रं पूर्वस्यां दिशि दृष्टवान् । हिन्दी--इस प्रकार दिव्य दृष्टि प्राप्त कर के रघु ने, उस घोड़े को चुराकर ले जाते हुए, पर्वतों के पंख काटनेवाले इन्द्र को पूर्व दिशा में देखा और रथ की होरी से बाँधे चपल घोड़े को इन्द्र का सारथि बराबर रोक रहा था ॥ ४२ ॥ शतैस्तमक्षणामनिमेषवृत्तिमिहरि विदित्वा हरिमिश्च वाजिमिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयतिव ॥ ३ ॥ संजीविनी-रघुस्तमश्वहारमनिमेषवृत्तिमिनिमेष व्यापारशन्यैरक्ष्या शतहरिभिहरिद्वणः । 'हरिाच्यवदाख्यातो हरित्कपिलवर्णयोः' इति विश्वः। वानिमिरश्नैश्च हरिमिन्द्रं विदित्वा ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy