SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ३४ रघुवंशमहाकाव्ये ततः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः । धनु तामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।। ३९ ।। संजीविनी-ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय भखं कर्तुम् । 'क्रियार्थीपपदस्य च स्थानिनः' इत्यादिना चतुर्यो । उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम् । अव्याहतस्वैरगतिमित्यर्थः । 'अपर्यावर्तयन्तोऽश्वमनुचरन्ति' इत्यापस्तम्बस्मरणात् तुरङ्गं धनु ता रक्षिणा रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन् । जहार किल । किलेत्यैतिटे ॥ ३९ ॥ अन्वयः-ततः परं, यज्वना, तेन, पुनः मखाय, उत्सृष्टम् , अनर्गलं, तुरंग, भनु तां रक्षिणां, अग्रतः, एव, शक्रः गूढ विग्रहः, 'सन्' जहार किल । वाध्य०-उत्सृष्ट: अनर्गलः तुरंगः शक्रेप्प गूढविग्रहेण 'सता' जहे। व्याख्या-ततः = तस्मात् , परम् = एकोनशतयशप्राप्त्यनन्तरं। यज्वना विधिनेष्टवता, तेनराशा दिलीपेन । पुनः = भूयोपि मखाय = यज्ञाय मखं कर्तुमित्यर्थः। उत्सृष्टं = मुक्तं त्यक्तम्। न विद्यते अर्गला = शृंखला यस्यासी, तमनर्गलं, तुरङ्गं = बोटकं । धनुबिभ्रतीति धनु तस्तेषां धनुर्भूतां धानुष्काणां रक्षिप्=तुरंगरक्षकाणाम् , अग्रतः=पुरतः एव । शक्रः = इन्द्रः, गूढः= गुप्तः, विग्रहः =शरोरं यस्य स गुडविग्रहः 'सन्' । जहार हरणं कृतवान् । किलेत्यति।। समा०--न विद्यते अर्गलं यस्य सः अनर्गलम् । धनुः विश्रतीति धनुर्भूतः, तेषां धनु - ताम् । रक्षन्तीति रक्षिणः, तेषां रक्षिणाम् । गूढः विग्रहः यस्य सः गूढविग्रहः । अनिल-शततममश्वमेधयशं कर्तु राजा दिलीपः पुनरपि यशाश्वं मुक्तवान् । तमश्वं गुढविग्रह इन्द्रः रक्षकाप्पां रघोश्च पुरत एव अपहृतवान् । हिन्दी-इसके बाद विधिपूर्वक यज्ञ करनेवाले महाराज दिलीप ने सौॉ अश्वमेधयश करने के लिये फिर खुला घोड़ा छोड़ा (इन्द्र यह न सहन कर सका ) और उसने अपने को छिपाकर धनुर्धारी रक्षकों के सामने हो उस घोड़े को चुरा लिया ॥ ३९ ॥ विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् । वसिष्ठधेनुश्च यदृच्छयागता अतप्रमावा ददृशेऽथ नन्दिनी ।। ४० ।। सञ्जीविनी-तत्कुमारस्य सैन्यं सेना सपदि विषाद इष्टनाशकृतो मनोभङ्गः यदुक्तम्'विषादश्चेतसो भङ्ग उपायाभावनाशयोः' इति । तेन लुप्ता प्रतिपत्तिः कर्तव्यशानं यस्य तत्तयोतम् । विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत् । स्थितं तस्थौ । अथ श्रुतप्रभाषा यदृच्छया स्वेच्छयाऽऽगता। रघोः स्वप्रसादलब्धत्वादनुजिक्षयेति भावः । नन्दिनी नाम वसिष्ठधेनुश्च ददृशे । द्वौ चकारादविलम्बस चकौ ॥ ४० ॥ अन्वयः-तत् कुमारसैन्यं, सपदि, विषादलुप्तप्रतिपत्ति, विस्मितं, 'सत्' स्थितं च, अथ, श्रुतप्रमावा, यदृच्छया, भागता, नन्दिनी 'नाम' वशिष्ठधेनुः, च ददृशे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy